रामनाथमिश्रः
रमानाथमिश्रस्य प्रतिभाया विकास उत्कलस्य विद्वन्मण्डितबालेश्वरनगरे सञ्जातः । एतस्मान्नगरान्नातिदूरे मणिखम्भनामके ग्रामेऽसौ १९०४ ख्रीष्टाब्दे जन्म लेभे। अनेनानेकरूपकाणि विरचितानि। तेषु चाणक्यविजयं, पुरातनवालेश्वरं, समाधानं, प्रायश्चित्तम्, आत्मविक्रयं, कर्मफलं श्रीरामविजयञ्चेति सुप्रसिद्धानि ।
रामनाथमिश्रः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | चाणक्यविजयं, पुरातनवालेश्वरं, समाधानं, प्रायश्चित्तम्, आत्मविक्रयं, कर्मफलं श्रीरामविजयम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
चाणक्यविजयम्
सम्पादयतुचाणक्यविजयं कवेः श्रेष्ठं रूपकं मन्यते। अस्मिन् पञ्चाङ्काः विद्यन्ते । नाटकमिदं १९३८ ख्रीष्टाब्दे विरचितम् । अस्याभिनयोऽखिलभारतीयप्राच्य-सम्मेलनस्य विंशतमे अधिवेशने भुवनेश्वरे सञ्चातः ।
मुद्राराक्षसं नाम नाटकमस्य उपजीव्यमस्ति, तथापि कविनेदं विलक्षणप्रतिभाबलेन नूतनरूपपरिमण्डितं कृतम् । अस्मिन् रूपके नन्दवधस्य चन्द्रगुप्तराज्याभिषेकस्य च वर्णनमुपलभ्यते ।
श्रीरामविजयम्
सम्पादयतुश्रीरामविजये नाटके पञ्चाङ्काः सन्ति । रूपकेऽस्मिन् ताडकावधतो रावणवधपर्यन्तं कथास्ति ।
समाधानम्
सम्पादयतुसमाधानं पञ्चस्वङ्केषु संविभक्तम् । रूपकेऽस्मिन् योरपीय-पद्धतिम् अनुसृत्य छात्राणां गन्धर्वरीत्या वैवाहिकसमस्यायाः समाधानं प्रस्तुतम् ।