रामभद्राम्बा(Ramabadramba) सम्पादयतु

१७ शतके एषा तञ्जावूरुनगरे जाता । राजा रघुनाथनामकः एतस्याः पतिः । ‘रघुनाथाभ्युदय’नामकम् ऐतिहासिकं काव्यं रचितवती अस्ति एषा । पतिं श्रीरामस्य अवतारं मत्वा काव्यं रचितवती अस्ति । स्वस्य बहुभाषाप्रावीण्यं कविताप्रागल्भ्यं च स्वग्रन्थे साभिमानं वर्णितवती अस्ति एषा । रघुनाथाभ्युदयकाव्यं न केवलं काव्यद्दष्टया, अपि तु ऐतिहासिकद्दष्ट्या अपि विशेषमहत्त्वम् अर्हति । रघुनाथनायकस्य आस्थाने आशुकवितारचनासमर्थाः बह्व्यः कवयित्र्यः आसन् इति श्रूयते । तासु अन्यतमा ‘मधुरवाणी’ नाम कवयित्री रघुनाथनायकेन रचितं तेलुगुरामायणं संस्कृतेन अनूदितवती अस्ति । ‎

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रामभद्राम्ब&oldid=444072" इत्यस्माद् प्रतिप्राप्तम्