रायगडमण्डलम्(महाराष्ट्रम्)

(रायगढमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

रायगडमण्डलं (मराठी: रायगड जिल्हा, आङ्ग्ल: Raigad district) महाराष्ट्रराज्यस्य कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अलिबाग् इति नगरम् । इदं मण्डलं समुद्रतटेभ्यः तत्र विद्यमानेभ्यः स्थलेभ्यश्च प्रसिद्धम् अस्ति ।


Raigad District

रायगड जिल्हा
मण्डलम्
महाराष्ट्रराज्ये रायगडमण्डलम्
महाराष्ट्रराज्ये रायगडमण्डलम्
देशः  India
जिल्हा रायगडमण्डलम्
उपमण्डलानि अलिबाग्, पेण, मुरूड, पनवेल, कर्जत, खालापूर, उरण, माणगाव, सुधागड, रोहा, तळा, महाड, श्रीवर्धन, म्हसाळा,पोलादपुर
विस्तारः ७१४८ च.कि.मी.
जनसङ्ख्या(२०११) २६,३४,२००
Government
 • मण्डलसङ्गाहकः
(District Collector)
श्री. एच. के. जावळे
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://raigad.nic.in
रायगडदुर्गम्
अलिबाग् सागरतीरम्

भौगोलिकम् संपादित करें

रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पुणेमण्डलं, पश्चिमदिशि अरबीसागरः, उत्तरदिशि ठाणेमण्डलं, दक्षिणदिशि रत्नगिरिमण्डलम् अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । मण्डलमिदं समुद्रतटे अस्ति अतः आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च भवति ।

कृषिः संपादित करें

तण्डुलः, रागिका, ‘वरी’, ‘कोद्रा’, माषः, 'तूर्', पूगीफलं(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि मण्डलेऽस्मिन् उत्पाद्यन्ते । आम्र-कदली-नारिकेलफलानाम् उत्पादनमपि भवत्यत्र ।

जनसङ्ख्या संपादित करें

रायगडमण्डलस्य जनसङ्ख्या(२०११) २६,३४,२०० अस्ति । अस्मिन् ११,१७,६२८ पुरुषाः, १३,४४,३४५ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।

उपमण्डलानि संपादित करें

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनसौकर्यार्थं ४ विभागेषु विभक्तानि -

१ 'अलिबाग्' - अलिबाग्, पेण, मुरूड २ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण ३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा ४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा, पोलादपुर

लोकजीवनम् संपादित करें

६३.१७% जनाः ग्रामेषु, ३६.८३% जनाः नगरेषु च निवसन्ति । ग्रामीणभागे कृषिः, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमाः सन्ति । जनाः तेषु कार्यरताः । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृतिश्च अत्रस्थ विशेषः ।


वीक्षणीयस्थलानि संपादित करें

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

मराठासाम्राज्यस्य महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एषः मुख्यः दुर्गः आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य स्मारकं, गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।

यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्गः । एषः जलदुर्गः । ३५० वर्षाणि यावत् एषः दुर्ग अजेयः आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।

  • 'समुद्रतीराणि' ः

- माण्डवा - हरिहरेश्वरः - नागाव - काशीद

  • 'मन्दिराणि'

- बल्लाळेश्वरगणपतिमन्दिरम्, पाली - वरदविनायकगणपतिमन्दिरम्, महाड - बिरला-गणेशमन्दिरम्, अलिबाग - एलिफन्टा-गह्वराः - कनकेश्वरमन्दिरम् - शिवथरघळ

बाह्यसम्पर्कतन्तुः संपादित करें