राष्ट्रियसंस्कृतसंस्थानम्

केन्द्रीयसंस्कृतविश्वविद्यालयः
ध्येयवाक्यम् योऽनूचानः स नो महान्
स्थापनम् 1970 (1970)
प्रकारः मानितविश्वविद्यालयः
उपकुलपतिः प्रो. श्रीनिवास वरखेड़ी
अवस्थानम् देहली, भारतम्
क्षेत्रम् समग्रे देशे १३ परिसराः
अनुमोदनम् यूजीसि, एन्.ए.ए.सि
जालस्थानम् sanskrit.nic.in

राष्ट्रियसंस्कृतसंस्थानं नवदेहल्यां विद्यमानं संस्कृतविश्वविद्यालयः वर्तते। इदं भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य वित्तीयानुदानेन प्रचलति। संस्कृतायोगस्य (1956-57) संस्तुतीनामाधारेण संपूर्णभारते संस्कृतशिक्षायाः प्रचाराय तथा सर्वकारस्य नीतीनां कार्यान्वयनाय च 15 अक्टोबर 1970 तमे दिनाङ्के स्वायत्तसंघटनरूपेण स्थापितमभूत् ।
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयः 2002 वर्षे ममासस्य 7 दिनाङ्के बहुपरिसरीयः मानितविश्वविद्यालयः इति घोषणामकरोत्।[],

  • विभिन्नराज्येषु परिसराणां स्थापना
  • माध्यमिक- पूर्वस्नातक-स्नातक-स्नातकोत्तर-विद्यावारिधिस्तरेषु पारम्परिकपद्धत्या संस्कृतशिक्षणम्
  • स्नातक-(शिक्षाशास्त्रम्/बि.एड.)स्नातकोत्तर-(शिक्षाचार्य/एम्.एड.)स्तरयोः संस्कृतशिक्षणप्रशिक्षणम्
  • संस्कृतस्य विभिन्नविषयेषु शोधकार्यार्थं प्रोत्साहनम्
  • संस्कृतस्य प्रचाराय मानवसंसाधनविकासमन्त्रालयस्य योजनानां कार्यान्वयनम्
  • संस्कृतपुस्तकालयानां पाण्डुलिपिसंग्रहालयानां स्थापना तथा दुर्लभपाण्डुलिपीनां महत्त्वपूर्णयोग्यपूस्तकानां प्रकाशनम्
  • संस्कृताध्यायनार्थं पत्राचारपाठ्यक्रमस्य संचालनम्

राष्ट्रियसंस्कृतसंस्थानस्य सञ्चालनं निम्नलिखिताभिः समितिभिः क्रियते।

  • अध्यक्षः
  • प्रबन्धनपरिषद्
  • विद्वत् परिषद्
  • योजनाप्रबोधनपरिषद्
  • वित्तसमितिः
  • परामर्शदातृसमितिः

भारतशासनमानवसंसाधनविकासमन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति । कुलपतिः संस्थानस्य प्रमुखः शैक्षणिकप्रशासनिकाधिकारी भवति । २८ आगष्ट्मासस्य १९९६ संस्कृतदिवसे संस्थानेन स्वकीये नवीनभवने कार्यं प्रारब्धम् । साम्प्रतं संस्थानस्य नवदेहलीस्थमुख्यालयमतिरिच्य समग्रे भारते दशपरिसराः वर्तन्ते । भवनमिदं पुस्तकालयः, सङ्गणककेन्द्रं सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् इत्यादिभिः प्रसरति । इतः एव भारतसर्वकारस्य मानवसंसाधनमन्त्रालयसाहाय्येन संस्कृतस्य सर्वविधं क्रियाकलापं सम्पादयति । आचार्यः रामकरणशर्मा संस्थानस्य संस्थापकः निदेशकः आसीत् ।

प्रतीकचिह्नम्

सम्पादयतु

राष्ट्रियसंस्कृतसंस्थानस्य प्रतीकचिह्नं चतुष्कोणात्मकं लोहितश्वेतकृष्णवर्णयुतं वर्तते । त्रयोऽपि वर्णाः सत्व-रजस्तमोऽभिभूतां स्वाभाविकीं वैश्विकप्रकृतिं सूचयन्ति । त्रिगुणात्मकेऽस्मिन् प्रपञ्चे कृष्णरेखान्तर्गतलोहितश्वेतरेखात्मकचतुष्कोणमिदं संस्थानस्य विशुद्धतां निर्मलतां ऐश्वर्यं च सूचयति । प्रतीकचिह्नेऽस्मिन् उपर्यङ्किते “योऽनूचानः स नो महान्” इति आदर्शवाक्यं सर्वेषां परिसराणां वैदिकशिक्षणप्रयोजनं स्पष्टीकरोति । प्रतीकेऽस्मिन् विद्यमानाः लोहितश्वेतकृष्णवर्ण तरङ्गायिताः रेखाः “संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्” इति भावनां प्रकाशयन्ति । अस्य वामभागीया पद्धतिः ब्रह्मणः सम्पर्केण उत्तेजितभावं प्रकटयति । एतत् संस्कृतस्य प्रचारे प्रसारे च संस्थानस्य सक्रियतायाः व्यस्ततायाश्च प्रतिनिधित्वं चित्रयति । अधः प्रतिसरमाणाः दक्षिणपार्स्वे तरङ्गायिताः लोहितश्वेतकृष्णवर्णीयाः रेखाः ब्रह्म प्राप्तये गवेषकस्य अभिलाषां लक्षयन्ति । मध्यस्थं सूर्यमुखीपुष्पं सत्यप्रतिष्ठायां संस्थानस्य निष्ठां सूचयति । पुष्पस्य मूले स्थापिते पत्रयुगले ऊर्ध्वमुखीप्रगतिः परोपकारतायाश्च भावः निगूढतया अन्तर्हितो वर्तते । “यतोऽभ्युदयनिःश्रेयससिद्धिः सः धर्मः” इति तत्त्वं पत्रयुगलं ज्ञापयति । आदर्शवाक्यमिदं शल्यपर्वगतश्लोकादुध्दृतम् अस्ति । तात्पर्यं हीदं वर्तते यत् कस्यचित् जनस्य उत्कृष्टतायां वयोवृध्दत्वं पलितकेशित्वं न नियामकं, न हि अत्यधिकसम्पत्तिमत्त्वं, नैवाधिकसंख्यात्मकः प्रभावशाली सम्बन्धः अपि तु ऋषिपरम्परागतज्ञानेनैव हि असौ जनः महान् उत्कृष्टः भवति।

कुलपतयः

सम्पादयतु
  1. आचार्य. वेम्पटिकुटुम्बशास्त्री (2002-08)
  2. आचार्य. राधावल्लभत्रिपाठी (2008-13)
  3. आचार्य. परमेश्वरनारायणशास्त्री (2015-)

राष्ट्रियसंस्कृतसंस्थानस्य परिसराः

सम्पादयतु

अस्य मानितविश्वविद्यालयस्य 12 परिसराः वर्तन्ते। एतेषु 11परिसरेषु विविधशास्त्राणाम् अध्ययनमध्यापनञ्च प्रचलति। गङ्गानाथझापरिसरे तु केवलं शोधकार्यं मातृकासंपादनकार्यञ्च प्रचलति।

1. गङ्गानाथझापरिसरः, प्रयागः, उत्तरप्रदेश
2. श्रीसदाशिवपरिसरः, पुरी, ओडिशा
3. श्रीरणबीरपरिसरः, कोट-भल्वाल, जम्मू
4. गुरुवायूरपरिसरः, पुरनाट्टुकरा, त्रिच्चूर, केरलाः
5. जयपुरपरिसरः, त्रिवेणीनगरम् , जयपुर, राजस्थान
6. लखनऊपरिसर:, गोमतीनगर,लखनउ, उत्तरप्रदेश
7. राजीवगान्धीपरिसरः, शृङ्गेरी, कर्नाटकम्
8. वेदव्यासपरिसरः, गर्ली, कांगरा, हिमाचलप्रदेश
9. भोपालपरिसरः, बागसेवनिया,भोपाल, मध्यप्रदेशः
10. के. जे. सोमय्यासंस्कृतविद्यापीठम् , विद्याविहार, मुम्बई, महाराष्ट्रम्
11. एकलव्यपरिसरः, अगर्तला, त्रिपुरा
12. रघुनाथकीर्तिपरिसर:देवप्रयाग उत्तराखण्ड

उल्लेखाः

सम्पादयतु