लघुशब्देन्दुशेखरः
लघुशब्देन्दुशेखरः
पातञ्जले महाभाष्ये कृतभरिपरिश्रमः ।
शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः ॥ १ ॥
याचकानां कल्पतरोररिकक्षहुताशनात् ।
शृङ्गवेरपुराधीशाद् रामतो लब्धजीविकः ॥ २॥
नत्वा फणीशं नागेशस्तनुतेऽर्थप्रकाशकम् ।
मनोरमोमार्द्धदेहं लघुशब्देन्दुशेखरम्।।
ग्रन्थसमाप्तिग्रन्थप्रचारादिप्रतिबन्धकदुरितप्रशमाय (१)समुचिता यनमस्काररूपं मङ्गलमाचरन् शिष्यशिक्षाये (२)व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च निबध्नाति-मुनित्रयमिति। कारकविभक्तेर्बलवत्त्वाद् (३) द्वितीया । परिभाव्येति । तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात् प्राचामुक्तीस्तिरस्कृत्येत्यर्थः, मुनित्रयोक्तीविचार्येत्यर्थो वा । 'परिभावस्तिरस्क्रिया' इति कोशात्तिरस्काराथकस्य धातोर्विचारार्थकत्वेऽपि न बाधकम् । धातूनामनेकार्थत्वात् । अत एव 'परौ भुवोऽवज्ञाने' ( ३।३।५५ ) इति सङ्गच्छते । एतेन स्वग्रन्थस्य प्राचीनग्रन्थैरगतार्थता (१)समूलत्वञ्च ध्वनितम् । भाविनोऽपि बुद्ध्या विषयीकरणादियमिति निर्देशः । सिद्धान्तप्रकाशकत्वेनातिदुरूहग्रन्थान्तरेभ्यः सिद्धान्तज्ञाने जायमानस्य क्लेशरूपसन्तापस्य (२)शामकत्वेन च कौमुदीसादृश्यम् । (३)अनेन (४)वैयाकरणसिद्धान्ता विषयाः, (५)तज्ज्ञानं प्रयोजन (६)तज्जिज्ञासुरधिकारीत्यादि सूचितम् !!
अइउण् (मा० सू० १) (१)एषां (२) क्रमबोधकत्वेऽपि 'आदिरन्त्येन' (१।१।७१) इत्यनेनैकवाक्यतया (३)वृत्तिपरिच्छेदकत्वेन संज्ञासूत्रत्वम् । क्रमस्य संज्ञाद्वारैवोपयोगात् । एकवाक्यता चादिरकारादिरन्त्येनेता तत्सदृशेन णकारादिना सहोच्चार्यमाण आद्यन्ताक्षिप्तानां संज्ञेति। 'स्वौजस' (१।१।२) इत्यादीनामप्येतदेकवाक्यतया सुबादिसजासत्रत्वं (४)स्वादिविधायकत्वञ्चेति बोध्यम् । एषु (५)संहिताया अविवक्षया
न संहिताकार्यम् । अनुकरणत्वेन (१)सौत्रत्वाच्च वर्णेभ्यो न विभक्त्युत्पत्तिः । कारप्रत्ययोऽपि न, (२)बाहुलकात् ।
यत्त (३) उपजीव्यविरोधात् सन्धिर्न । तथा हि अनादिसञ्जाग्रहकाले 'आद् गुणः' (६।११८७) इत्यादीनामनिष्पत्त्या तदप्रवृत्तावविकृतरूपाकारादिषु गृहीताजादिपदशक्तिः पश्चादच्प्रत्याहारे ज्ञाते उपेन्द्र इवात्रापि तत्प्रवृत्तौ विरुद्ध्येत । न हि सन्धिकार्ये कृतेऽविकृतरूपश्रवणं भवति' इति ।
तन्न । पुनरच्पदस्यार्थान्तरे शक्त्यग्रहेण तद्विरोधाभावात्(१) । न च सन्धौ सन्देहः । व्याख्यानतो निर्णयसम्भवात् ।
ननु चतुर्दशसूत्र्यामक्षरसमाम्नाय इति व्यवहारानुपपत्तिराम्नायसमाम्नायशब्दयोदे एव प्रसिद्धरित्यत आह-माहेश्वराणीति । महेश्वरादागतानीत्यर्थः । महेश्वरप्रसादलब्धानीति फलितम् । एवञ्चैवमानुपूर्वीका श्रुतिरेवैषा । तत्प्रसादात्पाणिनिना लब्धा । श्रुतिमूलकत्वादस्यैव वेदाङ्गत्वम(२) । प्रमाणम्
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तम् ' (पा० शि० ५७) । इति शिक्षावचनम् ।