लिङ्गमुद्रा
करणविधानम्
सम्पादयतुहस्तयोः मुष्ठिबन्धनं कृत्वा एकं अङ्गुष्ठं ऋजुः स्थाप्य अन्यदेकं अङ्गुष्ठं तस्य परितः स्थातव्यम् ।
परिणामः
सम्पादयतुद्वयोः हस्तयोः अग्रभागः (करतलम्) नुदितो भूत्वा तस्मिन् भागे विद्यमानानां कण्ठ- पित्ताशय- यकृत्- थैरैड्- हृदय- पान्क्रियास्- ग्रन्थीनां नोदनं भवति । तस्मात् तेषां सर्वेषां कार्यम् अपि उत्तमं भवति । अङ्गुष्टयोः परस्परनोदनेन उष्णता अधिका भवति ।
उपयोगः
सम्पादयतुशीतकाले इयं मुद्रा कतिपय निमेषपर्यन्तं (५-१०) क्रियतेचेदपि शरीरस्य उष्णता अधिका भूत्वा शैत्ये भूयमानं कम्पनं शमितो भवति। कासः, शैत्यम्, उब्बसः, टि.बि, इत्यादीनां कफव्याधीनां शमनं भवति । हवानियन्त्रितस्थले यदा कार्यं कुर्मः तदा शीतसम्बम्धीसमस्याः उद्भवन्ति । तदा लिङ्गमुद्रा ५-१० निमेषपर्यन्तं कृतं चेत् शीतसम्बन्धीसमस्याः दूरीभवन्ति । शरीरस्य स्थूलकायं विलापयितुं इयं मुद्रा बहु परिणामकारी अस्ति । एतस्य साकं सूर्यमुद्रा ५-१० निमेषपर्यन्तं कृता चेत् शरीरं सुदृढं कर्तुं शक्यते । पुरुषेषु लैङ्गिकशक्तिं च वर्धयति । नाभिकेन्द्रः स्वस्थानाय आगत्य पचनक्रिया समीचीनं करोति ।
नाभिकेन्द्रम्
सम्पादयतुवक्षस्स्थले तथा उदरस्य मध्यभागे नाभिकेन्द्रं अस्ति । रिक्त-उदरे नाभ्याः उपरि अङ्गुलीं यदा स्थापयामः तदा तत्र हृदयस्पन्दनं श्रुतं चेत् नाभिकेन्द्रं स्वस्थाने अस्ति इति ञायते । किन्तु हृदयस्पन्दनं नाभ्याः पार्ष्वे श्रुतं चेत् नाभिकेन्द्रं स्वस्थाने नास्ति इति अभिप्रायः । तस्मात् पचनशक्तिः न्यूनी भूत्वा मलावरोधः, वायुप्रकोपश्च उद्भबति । नाभिकेन्द्रे ७२ सहस्रनाड्यः सन्ति । ताः सर्वशरीरस्य सम्बद्धाः सन्ति । नाभिकेन्द्रं स्थानपल्लटं जातं चेत् शरीरस्य सर्व कार्याणि मन्दानि भवन्ति । तदर्थं नाभिकेन्द्रं स्वस्थाने एव भवितव्यम् । तेन शरीरस्वास्थं भवति ।
विशेषसूचना
सम्पादयतुइयं मुद्रा १०-१२ निमेषादधिकं न करणीया । ज्वरः अस्तिचेदपि इयं मुद्रा न करणीया । केवलं शैत्यता, कफः, ब्राङ्कैटिस् च यदा भवति तदा कफं निवारयितुं इयं मुद्रा करणीया । लिङ्गमुद्रया उष्णता अधिका भवति । तदर्थम् अधिकं जलं पिबेयुः । फलानि, क्षीरं, घृतं, तक्रं, लिम्बकं च अधिकं स्वीकर्तव्यम् । तदा मुद्रायाः दुष्परिणामः न सम्भवति । पित्तविकारः (आसिडिटि) सन् इयं मुद्रा न करणीया । आम्लपित्तः, शिरोभ्रमणं, अल्सर्, सति इयं मुद्रा न करणीया । समस्यानिवृत्तिः अनन्तरम् मुद्राकरणं स्थगनीयम् । नोचेत् अन्यः दुष्परिणामः सम्भवति । (शरीरे ज्वाला, उदरे व्रणानि इत्यादि)