वराटिकाः उदरपादिकुटुम्बे सैप्रिडी वर्गे एते मृद्वङ्गिनः भवन्ति। आधिक्येन उष्णवलये वसन्ति चेदपि समशीतोष्णवलये शीतवलये च एतासां वासः दृश्यते। तत्रापि हिन्दूमहासागरे शान्तसागरे च एतासां वासः विपुलतया भवति। आस्ट्रेलियादेशस्य ग्रेट् ब्यारियर् रीफ् समुद्रतीरे वराटिकानां विक्रयणं महता प्रमाणेन भवति।

Shells of various species of cowries; all but one have their anterior ends pointing towards the top of the page in this image
Cowry (Cypraea chinensis) with fully extended mantle.
Dorsal view of two shells of Monetaria moneta
Umbilia hesitata, side view, anterior end towards the right


इतिवृत्तम्

सम्पादयतु
  • वराटिकासदृशं सुन्दरं, विशिष्टं च प्राणिकवचान्तरं न विद्यते। स्वकीयवैविध्यमयविन्यासेन, वर्णेन, सौन्दर्येण, च वराटिकाः जनानां मनः हरन्ति।
  • वराटिकायुक्तः प्राणी अपि जीवनावसरे एव वर्णेन, दन्तैः च जनानां मनः हरन्ति स्म। अतः वराटिकानां सङ्ग्रहकार्यमारब्धम्। यथा नाणकानां पत्रालयचिटिकानां सङ्ग्रह इव वराटिकानां सङ्ग्रहः अपि आसक्तिकरी प्रवृत्तिः विद्यते।
  • १८-१९ तमे शताब्दौ इङ्गलेण्ड् देशे वराटिकानां सङ्ग्रहः आरब्धः। वराटिकानां सङ्ग्रहणे धनिनां प्रवृत्त्या वराटिकानां मूल्यम् अवर्धत।
  • परन्तु अनेके जनाः वराटिकाविक्रयणम् आरब्धवन्तः। अतः तस्य मूल्ये ह्रासः जातः। १९ तमे शताब्दौ ३० पौण्ड् मूल्यस्य वराटिका गच्छता कालेन १ पौण्ड् मूल्येन विक्रीतम्।
  • कौमारवराटिका तु अधुनापि विरलम्। अतः तस्य मूल्यम् अधुनापि महद् वर्तते। यदा जीविनां मरणं भवति तदा एव वराटिकाः चकासते।
  1. वराटिकानां सङ्ग्रहणे सरलाः मार्गाः विद्यन्ते। बाग्दाद् प्रदेशस्य चित्रकारस्य मसूदि इत्यस्य पूर्वजाः नारीकेलपर्णानि जले संस्थाप्य तद्वारा वराटिकाः सङ्गृह्णन्ति स्म।
  2. यावत् पर्यन्तं लोहस्य नाणकानि नासन्, तावत्पर्यन्तं वराटिकाः एव नाटकस्य स्थाने आसन्। १९ शतकपर्यन्तं अमेरिका, एष्या, आफ्रिकाखण्डेषु वराटिकाः एव नाणकस्य स्थाने उपयुञ्जते स्म्।
  • देहली, काशी, इत्यादिष्वपि नगरेषु नाणकस्य स्थाने वराटिकानां प्रयोगः आसीत्। परन्तु वराटिकानां मूल्यं प्रतिप्रदेशं भिद्यते स्म। उगाण्डा देशे वराटिकाद्वयेन एकः कर्मकरः लभ्यते स्म।
  • अरब्, फ्रेञ्च्, इङ्ग्लेण्ड् देशीयाः जनाः वराटिकानां विक्रयणं कुर्वन्ति स्म।
  • बेङ्गाले अद्यापि वराटिकाः धनलक्ष्मीसङ्केतरूपेण पूज्यन्ते।
  • आन्ध्रप्रदेशे विवाहकाले वराय वधूपक्षीयाः वराटिकाः उपायनरूपेण प्रयच्छन्ति।
  • बङ्गाले वराटिकायाः नाम स्वनाम्नि भवति चेद् शुभप्रदम् इति मत्वा एक्कुडि(एका वराटिका), दोक्कुडि(द्वे वराटिके) पाञ्चकुडि(पञ्च वराटिकाः)इत्यादि नामकरणं कुर्वन्ति।
  • लम्बाणिजनाः अद्यापि आभरणरूपेण वराटिकाः धरन्ति। स्वर्णवराटिकाः कण्ठे धरन्ति चेद् तद् नायकत्वद्योतकं इति फिजि एवं टोङ्गा गिरिजनाः विश्वसन्ति।
  • अभिमन्त्रिताः वराटिकाः बालारिष्टं, वन्ध्यताम्, च वारयन्ति इति जनानां विश्वासः वर्तते।
  • भारते ज्यौतिषिकाः फलाफलनिर्णये वराटिकाः उपयुञ्जते।

वराटिकानां वैविध्यम्

सम्पादयतु
  • १६५ विधाः वराटिकाः उपलभ्यन्ते। आकृत्याः वर्णस्य च आधारेण वराटिकानां विभागं कुर्वन्ति।
  • नारङ्गवराटिका (सै आकार्य्षिया) प्रपञ्चे सर्वत्र नाणकरूपेण आसीत्।
  • सै टैग्रिस्, सै डेसिपियन्स्, अम्बीलिया, सै टेस्टोनेरिया, सै म्याप्टा, सै आर्गस्, सै इसाबेला, सै जिग्बाब् इत्यादयः वराटिकाः प्रसिद्धाः सन्ति।


बाह्यसम्पर्काः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=वराटिका&oldid=474709" इत्यस्माद् प्रतिप्राप्तम्