वळ्ळत्तोळ् नारायणमेनोन्
कैरळीसाहित्यमण्डले आधुनिककवित्रयम् इति प्रथिता भवन्ति उळ्ळूर्, आशान्, वळ्ळत्तोळ् महाभागाः । तेषु अन्यतमः स्वातन्त्र्यसमरसेनानीः सांस्कारिकनायकश्चासीत् महाकविः वळ्ळत्तोळ् नारायणमेनोन् महाशयाः । सः पोन्नानी समीपस्थे चेन्नरग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् गृहे १८७८ तमे क्रिस्ताब्दे लब्धजन्माभूत् । मल्लिश्शेरि दामोदरन् इळयत् तथा कोण्टयूर् कुट्टिप्पारु अम्मा च तस्य पितरौ । संस्कृतपण्डितात् स्वमातुलादेव सः प्राथमिकशिक्षां अधिगतवान् । तर्कशास्त्रे पण्डितवरेण्यः कैक्कुळङ्ङर रामय्यर् तथा पारक्कुळं सुब्रह्मण्यशास्त्री च तस्य पितरौ । द्वादशे वयसि एव किरातशतकं नाम कश्चन मणिप्रवाळग्रन्थः अनेन विरचितः । महाकविना कुञ्ञिक्कुट्टन् तम्पुरान् महाभागेन सह परिचयमधिगतवान् सः त्रिश्शिवपुरे मङ्गलोदयं मासिक्याः प्रवर्तकः अभवत् । तत्रैव वसन् वाल्मीकिरामायणं कैरळ्याम् अनूदितवान् । अस्मिन्नवसरे हन्त, सः महानुभावः बधिरः सञ्जातः । अस्य बधिरविलापम् इति काव्यं स्वानुभवप्रतिपादकम् अतिरमणीयं च भवति । अनेकान् संस्कृतग्रन्थतल्लजानपि अनूदितवानयम् । न केवलं पुराणेतिहासादयः अपि तु केरळीयं प्रकृतिसौन्दर्यमपि तस्य काव्यविषयः अभूत् । भारताम्बायाः महत्वमपि महाकवेः कवितासु प्रतिध्वनति । गान्धीमहोदयस्यादर्शेनाकृष्टः सः देशस्नेहोद्दीपकानि अनेकानि स्वातन्त्र्यगीतानि व्यरचयन् । पञ्चसप्ततितमे वयसि अनेन ऋग्वेदः कैरल्यां विवर्तितः । सः केरळीयसंस्कृतेः प्राचीनकलायाः च पुनरुद्धारणे, संरक्षणे च तत्परः आसीत् । तदर्थं चेरुतुत्तिग्रामे केरळकलामण्डलम् इति प्रथितं केरळकलाप्रशिक्षणकेन्द्रम् अस्थापयत् । विदेशेषु कथाकेळ्याः प्रचारः अस्य महोदयस्य निरन्तरप्रयत्नेनैव समभूत् । चित्रयोगम् , बन्धनस्थनाय अनिरुद्धन् ,एन्टे गुरुनाथन् , साहित्यमञ्जरी , मग्दलनमरियम् इत्यादिभिः अशीत्यधिकैः प्रौढकाव्यकुसुमैः महाकविना अनेन कैरली समाराधिता । वळ्ळत्तोळ् शब्दसुन्दरः इति प्रथा सुप्रसिद्धा एव । साहित्यकलोपासकः अयं महान् कव्कोकिलः अष्टपञ्चाशदधिकैकोनविंशतितमे (१९५८) क्रिस्त्वब्दे मार्च् मासे त्रयोदशे दिने स्वकीयात् भौतिकाद् देहपञ्चराद् विमुक्तोभूत्।