वामनः
प्रस्तुतिः
सम्पादयतुकल्हणस्य राजतरङ्गिण्याम्
- मनोरथशङ्खदत्तः शकटस्सन्धिमांस्तथा ।
- बभूवुः कवयस्तस्य वामनाद्याश्च पण्डिताः ॥
इति पद्येन काश्मीरस्य राज्ञः जयापीडस्य आस्थाने वामनः आसीदिति ज्ञायते । एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । काशिकायाः रचयिता अपिच काव्यालङ्कारसूत्रवृत्तेःश्च रचयितारौ भिन्नौ एव भासतः । काव्यालङ्कारसूत्रवृत्तिनामकलक्षणग्रन्थद्वारा रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।
कालः
सम्पादयतुकाश्मीरराजस्य जयापीडस्य कालः क्रि.श.७५५ तः ७८६ पर्यन्तम् आसीत् । एवम् निश्चयेन तदाश्रितस्य वामनस्यापि कालः स एव अष्टमशतमानस्य उत्तरार्धम् भवितुमर्हति ।
कृतयः
सम्पादयतुअस्मिन् अलङ्कारशास्त्रग्रन्थे ५ अधिकरणानि १२भिः अध्यायैः विभक्तानि सन्ति । यथास्य अनुक्रमणिका वर्तते ।
- अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम् ।
- अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ॥
- काव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम् ।
- तुर्ये पदपदार्थानां दोषतत्वविवेचनम् ।।
- वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् ।
- गुणालङ्कारभेदास्तु षष्ठे शब्दगुणास्तथा ।।
- सप्तमेऽर्थगुणाः शब्दालङ्काराः पुनरष्टमे ।
- उपमा नवमे तस्याः प्रपञ्चो दशमे भवेत् ।।
- काव्यस्यैकादशे संविद्वादशे शब्दशोधनम् ।
- इत्येष द्वादशाध्यायीप्रमेयाणामनुक्रमः ॥
अपि च एष स्वस्य ग्रन्थस्य विचारे स्वयमेव वदति, यथा-
- पावनी वामनस्येयं पदोन्नतिपरिष्कृता ।
- गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी ॥ इति ।
अस्य ग्रन्थस्य गोपेन्द्रतिप्पभूपालनामा कामधेनुः इत्याख्यां व्याख्याम् आचख्ये । सः स्वव्याख्यानारम्भे वदति यत्-
- पावनपदविन्यासा समग्ररदोहशालिनी भजताम् ।
- घटयति कामितमर्थं काव्यालङ्कारकामधेनुरियम् ॥ इति ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु