संरक्षणोपायाः सम्पादयतु

महानसगृहात् धूम्रनिस्काषणाय धूम्रनिस्काषणाय धूर्मनलिका स्यात् । निर्धूमचुल्लिकायाः प्रयोगः भोजनपाचने करणीयः । स्वच्छ-सुरक्षित-ईन्धनानां प्रयोगः करणीयः । जैविक-इन्धनानाम् उपयोगः करणीयः । वाहनानां यन्त्रेषु नियमितरुपेणावधानं दातव्यम् । इन्धनानां ट्यूनिङ्ग् नियमितरुपेण च करणीयम्, अनेन प्रदूषणं न्यूनं भवति । वाहनेषु शीशारहितानामीन्धनानामुपयोगः करणीयः । अधिकाधिकः स्वार्वजनिक-वाहनस्योपयोगः करणीयः । द्विचक्रिकायाः (साइकेल) उपयोगः प्रोत्साहनीयः । कार्यालयस्य प्रारम्भिकस्तरे एव प्रदूषणनियन्त्रक-संयन्त्रस्यापि स्थापनं करणीयम् । यन्त्रागारेषु स्थापितं प्रदूषकनियन्त्रकसंयन्त्रं प्रचलति न वा इत्यवधेयम् ।विषयुक्त-प्रदूषकानामुद्योगानां निर्माणम् आवासीयक्षेत्रेभ्यः दूरं भवेत् । उद्योगानां धूम्रनलिकायाः ऊर्ध्दता अधिकास्यात्, येन वायुमण्डलं प्रदूषणरहितं स्यात् । जनसंख्यावृध्दिः अवरोधनीयः । अधिकाधिकं वृक्ष-संवर्धनं भवेत् । येन इङ्गालाम्लस्य दुष्परिणामः अवरुध्दः भविष्यति । जीवाश्म- इन्धनस्योपयोगः न्यूनः एव करणीयः । येन Co2 इत्यस्य निर्माणमेव न्यूनं भविष्यति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वायुसंरक्षणम्&oldid=409673" इत्यस्माद् प्रतिप्राप्तम्