वस्त्रेण परिवृतो रथः = वास्त्रो रथः ।

वस्त्र अर्थवदधातुरप्रत्यः प्रातिपदिकम् । पा. 1.2 इति सूत्रेण वस्त्र

                                                      शब्दस्य प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञायाः 
                                                      फलम् – ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट्...। इति सूत्रेण 
                                                      विवक्षानुसारम् तृतीया-एकवचनस्य टा प्रत्ययो भवति । तेन

वस्त्र + टा इति स्थितम् । अत्र विवक्षानुसारम् - परिवृतो रथः । 4.2.101 सूत्रेण

                                                    वस्त्र + टा इति तृतीयान्तात्प्रातिपदिकात् अण् प्रत्ययो भवति।

वस्त्र + टा + अण् हलन्त्यम्। इति ण् वर्णस्य इत्संज्ञा, तस्य लोपः। इति लोपे, अदर्शनम्

                                                       लोपः। इत्यदर्शने च कृते 

वस्त्र + टा + अ इति स्थितम् । अत्र अण् प्रत्ययस्य तद्धितसंज्ञा अस्ति। ( तद्धिताः। पा. 4

                       इत्यस्य अधिकारे अण् प्रत्ययस्य विधायकम् सूत्रमस्ति, अतः) तत्फलम् – 
                       कृत्तद्धितसमासाश्च। पा. 1.2. इति सूत्रेण वस्त्र + टा + अ इति तद्धित-
                       प्रत्ययान्तस्य समुदायस्य प्रातिपदिकसंज्ञा। प्रातिपदिकत्वात् – सुपो धातु-
                         प्रातिपदिकयोः। पा. 2.4. इत्यनेन सुपः अर्थात् टा प्रत्ययस्य लुक् = अदर्शनम् 
                       भवति। ततः -

वस्त्र + अ इति स्थितम् । तदन्तरम् अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्यये∫ङ्गम् । इति

                      सूत्रेण अ प्रत्यये परे वस्त्र इत्यस्य तदादिभागस्य अङ्गसंज्ञा। तत्फलम् –     
                      अङ्गस्य । पा. 6.4.1 इत्यधिकारे तद्धितेष्वचामादेः। (સૂત્રાર્થ - णित्, ञित् 
                      तद्धित પ્રત્યયોના પરમાં રહેતાં अंग ના આદિ अच् ને વૃદ્ધિ થાય છે.) इत्यनेन 
                      अ इति तद्धिते प्रत्ये परे अचामादेः अचः अर्थात् वकारस्थस्य अकारस्य वृद्धिः 
                      अर्थात् आ भवति ।

वास्त्र + अ अत्र यचि भम् । पा. 1.4. इति सूत्रेण अप्रत्यये परे वास्त्र इत्यस्य भसंज्ञा ।

                      भसंज्ञायाः फलम् यस्येति च। पा. 6.4. इत्यनेन सूत्रेण अकारस्य लोपो भवति।

वास्त्र् + अ = वास्त्र तदनन्तरम् प्रातिपदिकसंज्ञायाः द्वितीयमपि फलम् प्राप्यते । तच्च

                      ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट... । इत्यनेन सूत्रेण विवक्षानुसारम् 
                      प्रथमैकवचनस्य सु प्रत्ययो भवति।

वास्त्र + सु अत्र पूर्ववत् सु > स् , ततः रुत्वे , विसर्गे च कृते - वास्त्रः इति रूपम् सिद्ध्यति ।।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वास्त्रः&oldid=409679" इत्यस्माद् प्रतिप्राप्तम्