परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

सदस्यताप्राप्तिः भवति ऐच्छिकी, किन्तु सदस्यता प्राप्यते चेद् वरम् । अत्र भवदीयनाम्नः वैयक्तिकविषयाणां वा ख्यापनम् अनिवार्यं नास्ति । सदस्यतां विना अपि विकिपीडियायां योगदानं सर्वे अपि कर्तुम् अर्हन्ति । किन्तु सदस्यतायाः प्राप्त्या बहुविधं सौलभ्यं प्राप्यते ।

पञ्जीकृतवद्भिः प्राप्यमाणानि सौलभ्यानि सम्पादयतु

  • नूतनान् लेखान् लेखितुम् अर्हति भवान् ।
  • सदस्यतायाः प्राप्त्या अधिकाः सम्पादनविकल्पाः प्राप्तुं शक्याः । तत्र प्रमुखं वर्तते मम निरीक्षासूची यत्र भवान् इष्टेषु पुटेषु जायमानां परिवर्तनधारां सुलभतया अवलोकयितुम् अर्हति । अपरं सौलभ्यं नाम पृष्ठस्य चालनं पुनर्नामकरणञ्च । (प्रतिकृतेः लेपनद्वारा पृष्ठस्य चालनं न क्रियतां यतः तेन सम्पादनस्य इतिहासः रक्षितः न भवति । अन्यथा विचारमण्डपद्वारा कस्यचित् पञ्जीकृतवतः योजकस्य साहाय्यं स्वीक्रियताम् ।)
  • अपञ्जीकृतः योजकः तदीयसङ्गणकस्य अन्तर्जालस्थेन ऐ.पि.सङ्केतेन अभिज्ञातः भवति । तेनैव तदीयानि योगदानानि (सम्भाषणपृष्ठेषु लिखिताः अभिप्रायादयश्च) सर्वैः अभिज्ञायन्ते । भवदीयसङ्गणकस्य अन्तर्जालसङ्केतेन भवतः विषये अधिकं ज्ञातुं शक्येत । अतः पञ्जीकरणेन इदं निवारयितुं शक्यम् । अपि च अन्तर्जालसङ्केतः असकृत् परिवर्त्यते इत्यतः अपञ्जीकृतवतां योगदानस्य धारा रक्षिता न भवति येन सम्पादकगणे गौरवादराणां प्राप्तिः न स्यात् । तादृशानां सम्भाषणपृष्ठं सुष्ठु निर्दिष्टं न भवति इत्यतः तैः सह सम्भाषणं भवति दुष्करम् । एतैः कारणैः बहवः विकिपीडियायोजकाः मन्यन्ते यत् पञ्जीकरणद्वारा स्वीययोगदानस्य सम्भाषणपृष्ठे अभिप्रायलेखनस्य च उत्तरदायित्वं मनःपूर्वकं स्वीकृतं भवति इति । एतेन भवतः योगदानविषये आदरः वर्धते इत्येतत् स्पष्टं भवति ।
  • केषाञ्चन पृष्ठानाम्, उदाहरणाय अस्य पृष्ठस्य सम्पादनाय स्वयंस्थिरीकृतसदस्यता अपेक्षिता भवति । येन पञ्जीकृतेन सदस्येन दश सम्पादनानि कृतानि पञ्जीकरणानन्तरं दिनचतुष्टयञ्च अतीतं तेन इदं सामर्थ्यं प्राप्तं भवति । किन्तु अपञ्जीकृतेन सदस्येन न कदापि ।
  • पञ्जीकृतैः सदस्यैः केवलं प्रशासकत्वं प्राप्तुं शक्यम् ।

भवता पञ्जीकरणं कृतं चेत् भवदीयं योजकनाम कूटशब्दश्च (Password) न विस्मर्यताम् । भवान् यदि विस्मरणशीलः तर्हि सदस्यताप्राप्त्यवसरे भवदीयः ईपत्रसङ्केतः अवश्यं लिख्यताम् । एतेन कूटशब्दः विस्मृतश्चेत् नूतनः कूटशब्दः प्राप्तुं शक्यः भवति ।

सदस्यता कथं प्राप्तव्या सम्पादयतु

सदस्यता प्राप्त्यर्थम् उपरि नोदनं क्रियताम् अथवा पृष्ठस्य उपरि दक्षिणकोणे ’सदस्यता प्राप्यताम्’ इत्यत्र नुद्यताम् । सकृत् चितं योजकनाम सुलभतया परिवर्तयितुम् अशक्या । अतः सम्यक् विचिन्त्य योजकनाम चिनुताम् ।

पञ्जीकरणार्थं अत्र नुद्यताम्-पञ्जीकरणम्