विकिपीडिया:स्वशिक्षा/सम्भाषणपृष्ठम्
परिचयः | सम्पादनम् | विन्यासः | विकिपीडियासम्पर्कः | उल्लेखः | सम्भाषणपृष्ठम् | अवधेयम् | पञ्जीकरणम् | उपसंहारः |
सम्भाषणपृष्ठम्
सम्पादयतुलेखस्य विषये अन्यैः विकिपीडियायोजकैः सह चर्चितुम् अवसरं कल्पयति इदं सम्भाषणपृष्ठम् । इदं जल्पनाय भिन्नविषये सम्भाषणाय वा न उपयोक्तव्यम्।
लेखस्य परिष्करणदृष्ट्या गुणवर्धनदृष्ट्या भवतः प्रश्नः, अभिप्रायः, विरोधः वा यदि विद्यते, तर्हि लेखस्य सम्भाषणपृष्ठे लिख्यतां न तु लेखस्य अन्तः । एतत् कर्तुं लेखस्य उपरि वामभागे विद्यमानं सम्भाषणम् इत्यत्र नुद्यताम् । अयं सम्पर्कतन्तुः रक्तवर्णीयः अस्ति चेत् चिन्ता मास्तु । नूतनस्य सम्भाषणपृष्ठस्य आरम्भः युक्तः एव ।
प्रत्युत्तरलेखनम्
सम्पादयतुअन्यस्य विचारस्य प्रतिस्पन्दः भवता लिख्यमानः अस्ति चेत् तस्य लेखनस्य (सम्भाषणपृष्ठे) अधः लिख्यताम् । भवता नूतनः विषयः कश्चन उपस्थाप्यमानः अस्ति चेत् ’विषयः योज्यताम्’ इति यत् सम्भाषणपृष्ठस्य उपरि विद्यते तत्र नुद्यताम् । तदा सः स्वयमेव सम्भाषणपृष्ठस्य अधोभागं प्रति नीतो भवति ।
लेखनस्य अनन्तरं स्वीयं हस्ताङ्कनं कर्तुं ~~~~ नुद्यतां येन भवदीयं योजकनाम, समयः, हस्ताङ्कनं च योजितं भवति । पृष्ठस्य संरक्षणपिञ्जस्य नोदनेन भवदीयं हस्ताङ्कनं स्वयमेव योजितं भवति । अन्यथा भवता लिखितं तु दृश्यते हस्ताङ्कनं विना । (सौकर्यार्थं - सम्पादनमञ्जूषायां हस्ताङ्कनचित्रं यत्र विद्यते तत्र नोदनेन हस्ताङ्कनं स्वयं योजितं भवति ।)
विकिपीडियायां भवता सदस्यता न प्राप्ता चेत्, सदस्यतायां विद्यमानायां सत्याम् अपि न प्रविष्टः चेत् भवतः सङ्गणकयन्त्रस्य ऐपी सङ्केतः उल्लिखितः भवति ~~~~ - अस्य नोदनेन ।
योजकस्य सम्भाषणपृष्ठम्
सम्पादयतुप्रत्येकस्य योजकस्य (येन सदस्यता प्राप्ता) अपि किञ्चन सम्भाषणपृष्ठं भवति यत्र अन्ये योजकाः सन्देशान् लेखितुम् अर्हन्ति । अन्यैः सन्देशः लिखितः चेत् प्रवेशनस्य समनन्तरमेव विकिपीडियापृष्ठस्य उपरि ’भवतः कृते नूतनः सन्देशः विद्यते’ इति दृश्यते येन योजकपृष्ठं सम्पृक्तमपि वर्तते ।
अस्य उत्तरं द्विधा प्रदातुं अर्हति भवान् । येन सन्देशः लिखितः तस्य सम्भाषणपृष्ठे भवदीयम् उत्तरं लेखितुम् अर्हति अथवा भवदीये सम्भाषणपृष्ठे एव तस्य सन्देशस्य अनन्तरं लेखितुम् अर्हति । विकिपीडियाव्यवस्थायाम् एतद् द्वयमपि बहुधा दृश्यते । किन्तु भवदीये योजकपृष्ठे लिखितम् उत्तरं कदाचित् अन्येन न दृश्येत । किन्तु तदीये सम्भाषणपृष्ठे लिख्यते चेत् ’नूतनः सन्देशः विद्यते’ इति तेन सूचना प्राप्यते इत्यतः तेन भवदीयः सन्देशः अवश्यम् अवलोक्यते एव ।
भङ्गुरम् (Indent)
सम्पादयतुभङ्गुरीकरणेन चर्चायाः प्रारूपं गणनीयप्रमाणेन परिष्कृतं भवति । तेन पठनं भवति सुकरम् । सामान्यतया यस्य सम्भाषकस्य सूचनायाः उत्तरं लिख्यते तत् किञ्चित् दक्षिणतः अपसरति । विकिपीडियाव्यवस्थायां भङ्गुरीकरणं बहुधा कर्तुं शक्यम् -
सामान्यं भङ्गुरीकरणम्
सम्पादयतुपङ्क्तेः आरम्भे ’कोलन्’चिह्नस्य स्थापनं (:) सामान्यतया क्रियते । अधिकवारं ’कोलन्-चिह्नं’ स्थाप्यते चेत् उत्तरं तावता प्रमाणेन दक्षिणतः अपसरति ।
उदा -
- पूर्णतया वामतः तिष्ठति ।
- : किञ्चित् दक्षिणतः अपसरति ।
- :: अधिकप्रमाणेन दक्षिणतः अपसरति ।
एवं दृश्यते -
- पूर्णतया वामतः तिष्ठति ।
- किञ्चित् दक्षिणतः अपसरति ।
- अधिकप्रमाणेन दक्षिणतः अपसरति ।
- किञ्चित् दक्षिणतः अपसरति ।
ताराचिह्नानि
सम्पादयतुताराचिह्नैः अपि अङ्कयितुं शक्यते यानि आवलीनां निमित्तम् उपयुज्यन्ते । दर्शनावसरे ताराचिह्नं भवेत् इति इच्छति चेत् एवं लिख्यताम् - (*) । भङ्गुरीकरणे इव अत्रापि अधिकसङ्ख्याकानि ताराचिह्नानि (*) स्थाप्यन्ते चेत् परिच्छेदः आधिक्येन दक्षिणतः अपसरति । उदा -
उदा -
- * प्रथमा आवली
- * द्वितीया आवली
- ** द्वितीयावल्याः उपावली
- * तृतीया आवली
एवं दृश्यते -
- प्रथमा आवली
- द्वितीया आवली
- द्वितीयावल्याः उपावली
- तृतीया आवली
सङ्ख्याभिः निर्देशनम्
सम्पादयतुआवल्यः सङ्ख्याभिः अपि निर्देष्टुं शक्यन्ते । एतन्निमित्तं सङ्ख्यासूचकं चिह्नम् उपयुज्यताम् (#) । अनुमोदनावसरे मतदानावसरे अस्य उपयोगः सामान्यतः क्रियते । अत्रापि पार्श्वतो नयनाय सङ्ख्यासूचकचिह्नानां सङ्ख्या वर्धनीया । उदा -
उदा -
- # प्रथमा आवली
- # द्वितीया आवली
- ## द्वितीयावल्याः उपावली
- # तृतीया आवली
एवं दृश्यते -
- प्रथमा आवली
- द्वितीया आवली
- द्वितीयावल्याः उपावली
- तृतीया आवली