विक्रमादित्यः (नौयानम्)
ऐ एन् एस् विक्रमादित्य (आर् ३३) | |
कार्यक्षेत्रम् (भारतम्) | |
---|---|
नाम | ऐ एन् एस् विक्रमादित्य (आर् ३३)[१] |
नाम्नः स्रोतः | विक्रमादित्यः |
निर्माता | ब्लाक् सी शीप्-यार्ड्, मैकोलीव्, यूक्रेन् |
मौल्यम् | $२.३५ बिलियन्[२] |
मान्यतप्राप्तिः | १६ नवेम्बर् २०१३[३] |
गृहस्थानकम् | ऐ एन् एस् कदम्ब, कारवारम् |
धेयम् | Strike Far, Strike Sure[४] |
स्थितिः | २०१४ वर्षतः कार्यक्षेत्रे |
साधारणवैशिष्ट्यानि | |
श्रेणी |
संशोधितकैवश्रेणी |
प्रकारः | विमानवाहकः |
विस्थापनम् | ४५,४०० टन् पर्यन्तं भारं विस्थापनयोग्यता [५][६] |
दैर्घ्यम् | 284 मीटर (932 फ़ुट) (आहत्य) |
स्थूलत्वम् | 60 मीटर (200 फ़ुट)[७] |
जलोच्छासः (सहनक्षमता) | 10.2 मीटर (33 फ़ुट) |
नौपृष्ठाणि(डेक्) | 22[८] |
संस्थापितशक्तिः |
वैकल्पिकरूपेण ६ टर्बो एवञ्च ६ डीजेल् |
प्रणोदनम् |
८ टर्बोशक्तियुक्त बायलार्स्, ४ शाफ्ट्स् |
गतिः | अधिकतमः ३० नाट्स्(knots)(५६कि मी/प्रतिघन्टा) |
सीमा |
१८ नाट्स् (३३km/h) वेगेन ७,००० नाटिकल् मैल् (१३,०० कि मी) तः १३,५०० नाटिकल् मैल् (२५,००० कि मी)[९] |
तितिक्षा | ४५ दिनानि[८] |
पूरणम् | १,६००-२,०००[७] |
संवेदकस्तथा कार्यपद्धतिः |
दीर्घसीमायुक्तः आवेक्षणरेडार् (Air Surveillance Radars) |
शस्त्रीकरणम् | |
विमानवाहनक्षमता |
अधिकतम ३६ विमानयानानि यथा-
|
वैमानिक- सौलभ्यानि |
|
ऐ एन् एस्(INS) विक्रमादित्यः (Vikramāditya) पूर्वसोवियत्-राष्ट्रस्य एडमिरल् गोर्शकोव् इति विमानवाहक-नौयानस्य नूतननाम अस्ति । एतद् वृहन्नौयानम् इदानीं भारतस्य अधीनं वर्तते । किञ्चिद् कालपूर्वम् एवम् अनुमीयते स्म यत् यानमिदं २०१२ वर्षाभ्यन्तरे भारतस्य नौसेनायां भवति इति । परन्तु बहुविलम्बेन[१५] २०१३ तमवर्षस्य नवेम्बर् मासस्य १६ दिनाङ्के एतद् विशालनौयानं भारतीयनौसेनायां आगतम् ।[१६] [१७] २०१४ वर्षस्य जनवरीमासस्य ६ दिनाङ्के ऐ एन् एस् विक्रमादित्यः भारतीयनौसेनायाः कारवारस्थिते आगतः[१८] । विक्रमादित्यनौयानम् यूक्रेन्देशस्य माइकोलैव् ब्लैक् सी शिपयार्ड् मध्ये निर्मितं(१९७८-१९८२) एकं कीव् श्रेण्यान्तर्भुतं विमानवाहकनौयानस्य रूपान्तरणम् अस्ति । रशियादेशस्थिते अर्खान्गेल्स्क् ओब्लास्ट् इतस्य सेवेरॉद्विनस्क् संस्थायाः सेवमाश् शिपयार्डे अस्य यानस्य पुनर्नवीकरणम् अभवत् । यानमिदं भारतस्य एकमेव कार्यरतस्य विमानवाहकनौयानस्य ऐ एन् एस् विराटस्य स्थाने कार्यं करिष्यति । विक्रमादित्यस्य निर्माणे भारतस्य $२.३५ बिलियन् धनव्यायः अभूत् [२]।
नामकरणम्
सम्पादयतु"विक्रमादित्यः" इति संस्कृतशब्दस्य अर्थः "सूर्यसमः यस्य विक्रमः" । शाब्दिकीं व्युत्पत्तिं विहाय उज्जयिन्याः प्रसिद्धस्य पराक्रमशालीराज्ञः द्वितीयचन्द्रगुप्तस्यापि ख्यातिः विक्रमादित्यः इत्यनेन नाम्ना आसीत् । महान् योद्धारूपेण इतिहासख्यातः अयं विक्रमादित्यः । नौयानस्य नामकरणमपि एतस्मात् प्रसिद्धिं गता ।
क्षमता
सम्पादयतुविक्रमादित्यनौयानं ४५३०० टन् भारयुक्तं, २८४ मीटर् दैर्घ्यं तथा ६० मीटर् औन्नत्यविशिष्टं युद्धयानम् अस्ति[१९] । तुलनात्मकदृष्ट्या अस्य यानस्य दैर्घ्यं त्रिणि पादकन्दुकक्रीडाङ्गणसमम् अस्ति । औन्नत्यञ्च प्रायः २२ अट्टविशिष्टं भवनसदृशम् अस्ति । अत्र मिग्(MiG)-२९-के(K) युद्धविमानं, कामोव्-३१, कामोव्-२८, सीकिङ्ग, ए एल् ऐच् ध्रुवः, चेतकः हेलिकॉप्टर् सहित त्रिंशत् विमानानि भवन्ति तथा एन्टी मिसैल् प्रणाल्यः सक्रियाः भवन्ति । एतस्याः व्यवस्थायाः परिणामस्वरूपं एकसहस्र किलोमीटर् पर्यन्तं युद्धविमानं, युद्धनौयानं वा अस्य परिधौ भवति । १६०० नौसैनिकानां कर्मीवाहिनीनिमित्तं १८ मेगावाट् जेनरेटर्-तः विद्युतस्तथा आस्मोसिस् प्लान्ट्तः ४०० टन् पेयजलं उपलब्धम् भवति ।
इतिहासः
सम्पादयतुक्रयणम्
सम्पादयतु- १९८७ तमे वर्षे एडमिरल् गोर्शकोव् इति नौयानं को सोवियत् सङ्घस्य नौसेनायां योजितमासीत् । परन्तु सोवियत् सङ्घस्य विलुप्तेः पश्चात् १९९६ वर्षे सर्वकारेण एतद् यानं निष्क्रियं कारितमासीत् । अयं विषयः भारतसर्वकारस्य ध्यानं आकर्षितम् आसीत् । तदा भारतमपि स्वविमानवाहकनौयानस्य क्षमतावर्धने प्रयत्नशीलः आसीत् [२०]। वहुवर्षपर्यन्तं चर्चायाः पश्चात् २० जनवरी, २००४ तमे वर्षे अस्मिन् विषये रशिया-भारतयोः सन्धिपत्रे हस्ताक्षरम् अभूत् । नौयानम् तदा निष्क्रियमासीत् तथापि भारतसर्वकारेण पुनर्निमाणनिमित्तं $८०० मिलियन् तथा $१ बिलियन् धनराशिः उच्चस्तरीकरणार्थं दत्तः । भारतीयनौसेना एतस्मिन् नौयाने ई-2सी हॉक् ऐ(E-2C Hawkeye) व्यवस्था स्थापयितुं उत्साही आसीत् । परन्तु अनन्तरं निर्णयः परिवर्तितः आसीत्[२१] २००९ वर्षे भारतीयनौसेनानिमित्तं नोर्थरोप् ग्रुम्मान् संस्थया उन्नता व्यवस्था ई-2डी हॉव्कै (E-2D Hawkeye) प्रदर्शिता[२२] ।
- $१ बिलियन् धनेन मिकोविमानयानं मिग्-२९के फल्क्रम्-डी (प्रोडक्ट् ९.४१),मिग्-२९के यू बी, ६ कामोव् के ए-३१ "हेलिक्स्" टोहीविमानं, टारपीडो ट्यूब्स्, तथा मिसैलाद्याः प्रणाल्यः सौपलभ्यमानाः भवन्ति इति सन्धिपत्रे आसीत् ।
- १४.३º बो स्कै-जम्प् कृते मार्गनिर्माणार्थं याने अग्रे स्थितानां पी-५००, बाजल्ट् क्रूज् मिसैल् लाञ्चर् तथा चत्वारः अन्ते किन्झल् मिसैल् लाञ्चर् आद्यस्त्राणां अनावृतकरणस्य अपेक्षा आसीत् । शॉर्ट् टेक्-ऑफ् बट् एसिस्टेड् रिकवरी (एस् टी ओ बी ए आर् (STOBAR)) विन्यासार्थं एषा योजना प्रयोजनीया आसीत् [२३] । एतस्मात् गोर्शकोव् नौयानस्य सङ्करवाहक/क्रुजर्-तः केवलं वाहकरूपेण परिवर्तनं भविष्यति ।
- ऐ एन् एस् विक्रमादित्यः इति नौयानम् अर्पयितुं घोषणा २००८ तमवर्षस्य अगस्ट् मासे अभवत् । एतस्मात् यानमिदं भारतीयनौसेनायाः एकमात्रं विमानवाहकनौयानस्य(ऐ एन् एस् विराटस्य) स्थाने कार्यकर्तुं अनुमतिम् अलभत् । भारतसर्वकारेण ऐ एन् एस् विराटस्य सेवानिवृत्तेः समयसीमा २०१०-२०१२ पर्यन्तं वर्धिता कृता[२४] । कालविलम्बेन मूल्यवृद्धेः विषयः आगतः आसीत् । अयं विषयः निराकर्तुं उच्चस्तरीय कूटनीतिज्ञानां वार्ताम् अभवत् । भारतदेशेन एषा परियोजनानिमित्तं $१.२ बिलियन् अतिरिक्तधनराशिः दत्ता । एतद् मौल्यं पूर्वापेक्षया द्विगुणाधिकमासीत्[२५] ।
- २००८ तमवर्षस्य जुलै मासे एवम् उद्घोषितमासीत् यत् रशियादेशेन नौयानस्य $३.४ बिलियन् पर्यन्तं मूल्यवृद्धिः कृता । नौयानस्य असमीचीना स्थितिनिमित्तम् अप्रत्याशितव्यायः कारणत्वेन वर्णितः आसीत्[२६] । भारतदेशेन २००८ वर्षस्य नवेम्बर् मासाभ्यान्तरे $ ४०० मिलियन् धनराशिः प्रदत्ता आसीत् ।
- यदि यानमिदम् भारतदेशः क्रेतुं नेच्छति तर्हि रशिया स्वसेनायां अन्तर्भावयितुम् आग्रही आसीत् । २००८ तमवर्षस्य डिसेम्बर् मासे भारतसर्वकारपक्षतः सूचना प्राप्ता यत् कैबिनेट् कमिटी अन् सिक्युरिटी(सी सी एस्) इति संस्थायाः गोष्ठ्यां सर्वोत्तमविकल्परूपेण रशियादेशीयनौयानं (एडमिरल् गोर्शकोव्) क्रेतुं निर्णयः अभूत्[२७] । भारतस्य महालेखपरीक्षकसंस्था (सी ए जी) आलोचनां कृत्वा सर्वकारं सूचीतमासीत् यत्- विक्रमादित्यनौयानम् एकं पुरातनं युद्धयानं यस्य कार्यावधिः वहुदीर्घा भवितुं नार्हति । यानमिदं मौल्यदृष्ट्या नूतनयानापेक्षया ६०% अधिकमस्ति । तथा अधिकविलम्बस्यापि आशङ्का अस्त्यैव ।
- भारतीयनौसेनाप्रमुखः एडमिरल् सुरीशमेहता महोदयः युद्धनौयानस्य क्रयणस्य पक्षे उक्तवान्- "अहं सी ए जी संस्थाविषये टिप्पणी कर्तुं योग्यः न, परन्तु भवन्तः सर्वे रक्षाविश्लेषकाः सन्ति, किम् भवन्तः $२ बिलियन् धनेन विमानवाहकनौयानम् आनयितुं शक्नुवन्ति वा ? यदि शक्यं तर्हि अहमिदनीमेव धनादेशपत्रं (चेक्) दातुं समर्थः" ।
नौसेनाप्रमुखस्य इयं विवृत्त्या अनुमातुं शक्नुमः यत् सन्धिः $२ बिलियन् अधिका अस्तीति । "नौयानस्य क्रयणस्य पूर्वं नौसेनया विश्लेषणं न कृतमिति" सी ए जी संस्थायाः टिप्पणीविषये प्रश्ने पृष्ठे सति भारतीयनौसेनाप्रमुखस्य उत्तरम् एवमासीत्- "अहं भवन्तं सुनिश्चितं कारयितुं शक्नोमि यत्, एवन्नास्ति(विश्लेषणं न कृतमिति) विषयः । दशवर्षारभ्यः अस्माकम् अवधानम् अस्य नौयानस्योपरि अस्ति ।"
- २००९ तमवर्षस्य जुलै-मासस्य द्वितीये दिनाङ्के रशियादेशस्य राष्ट्रपतिना उक्तं यत् त्वरया नौयानस्य अवशिष्टानि कार्याणि समाप्य २०१२ संवत्सराभ्यन्तरे भारताय दीयते । [२८] सूचनानुगुणं सेप्टेम्बर-मासस्य ७ दिनाङ्के नौयानस्य वाणिज्यविषये रशिया-भारतयोर्मध्ये अन्तिमा चर्चा जाता ।[२९]
- अन्ततः २०१३ तमवर्षस्य नवेम्बर्-मासस्य १६ दिनाङ्के नौयानं भारतीयनौसेनायाम् आगतम् ।[१६] [१७] तथा २०१४ वर्षस्य जनवरीमासे कारवारस्थे भारतीयनौसेनास्थानके संप्राप्तम् । [१८], [३०]
नवीकरणम्
सम्पादयतुनौयानस्य निम्नतलस्य पुनर्नवीकरणकार्याणि २००८ तमे संवत्सरे समाप्तानि आसन् ।[३१] अनन्तरं डिसेम्बर्-मासस्य ४ दिनाङ्के यानस्य पुनः जलावतरणम् कृतम् ।[३२] २०१० वर्षाभ्यन्तरे नौयानस्य यन्त्राणि सर्वाणि स्थापितानि आसन् ।[३३]
टिप्पणी
सम्पादयतु- ↑ "विमानवाहकनौयानम्: ऐ एन् एस् विक्रमादित्य". भारतीयनौसेना. आह्रियत 4 January 2014.
- ↑ २.० २.१ PTI (10 March 2010). "$ २.३ बिलियन्मितेन धनेन गोर्शकोव्-सन्धिः". The Hindu. आह्रियत 27 April 2013.
- ↑ "नवेम्बर् १६, विमानवाहकयानम् (ऐ एन् एस् विक्रमादित्यः) भारतीयनौसेनायायाम् अगन्तुं सिद्धम् ।". दि इन्डियन् एक्स्प्रेस्. १४ नवेम्बर् २०१३. आह्रियत १५ नवेम्बर् २०१३.
- ↑ "विक्रमादित्ययानस्य ध्येयवाक्यम्- 'Strike Far, Strike Sure'". इन्डिया टुडे. १७ नवेम्बर् २०१३. आह्रियत १७ नवेम्बर् २०१३.
- ↑ "नौसेना – योजना ११४३". Bharat-Rakshak.com. १७ नवेम्बर् २००८. Archived from the original on 2012-07-10. आह्रियत २९ जुलै २०१२.
- ↑ "भारतीयनौयानस्य समुद्रभ्रमणम् #124; रक्षामन्त्रालयवार्ता". defensenews.com. Archived from the original on 2013-06-16. आह्रियत २९ जुलै २०१२.
- ↑ ७.० ७.१ "Vikramaditya to be handed to the Indian Navy on November 16". India & Russia Report. आह्रियत 27 October 2013.
- ↑ PTI. "Engine problems in INS Vikramaditya fixed, sea trial to start in June – Economic Times". Articles.economictimes.indiatimes.com. Archived from the original on 2017-02-28. आह्रियत 27 April 2013. "an endurance of 13,500 nautical miles (25,000 km) at a cruising speed of 18 knots. It will have an air wing consisting of Russian-made MiG-29K jet fighter planes and Kamov Ka-31 early warning radar helicopters."
- ↑ "INS Vikramaditya won't have air defence system for now". Indian Express. 3 August 2013. आह्रियत 26 November 2013.
- ↑ "INS Vikramaditya will serve Navy for 30 years". The Hindu. 7 August 2013. आह्रियत 26 November 2013.
- ↑ "Misses, waits & progress in naval missiles". Business Standard. 2 August 2013. आह्रियत 26 November 2013.
- ↑ "INS Vikramaditya enters Indian Navy's area of operation". The Hindu. आह्रियत 4 January 2014.
- ↑ "Navy gets long-delayed Vikramaditya". Business Standard. 16 November 2013. आह्रियत 26 November 2013.
- ↑ 2012 पर्यन्तं रशिया ऐ एन् एस्(INS) विक्रमादित्यस्य (एडम् गोर्शकोव्) अर्पणे विलम्बः कृतः
- ↑ १६.० १६.१ "INS Vikramaditya Commissioned in Indian Navy". रक्षामन्त्रालयः, भारतसर्वकारस्य विज्ञप्तिः. १६ नवेम्बर् २०१३. आह्रियत १८ नवेम्बर् २०१३.
- ↑ १७.० १७.१ "ऐ एन् एस् विक्रमादित्ययानं रशियादेशः भारतं अर्पितवान्". नवभारत टाईम्स्. १६ नवेम्बर् २०१३. आह्रियत १८ नवेम्बर् २०१३.[नष्टसम्पर्कः]
- ↑ १८.० १८.१ उद्धरणे दोषः : अमान्या
<ref>
शृङ्खला;nbt15112013-tkdnv
इत्यस्य आधारः अज्ञातः - ↑ INS Vikramaditya undergoing sea trials
- ↑ http://www.strategypage.com/htmw/htnavai/articles/20100603.aspx
- ↑ IndiaDefence.com Archived २००९-०२-०१ at the Wayback Machine - व्हाट्स् हॉट्? साम्प्रतिकघटनानां विश्लेषणम् - एयरो इण्डिया २००५ - नौसेनायाः इच्छा - एकः ऐ डी सी (IDC) रिपोर्ट्
- ↑ "भारतीयनौसेनया नौर्थ्रोप् एडवान्स्ड् हॉक् ऐव्यवस्था निराकृता". Archived from the original on 2010-03-21. आह्रियत 2023-09-30.
- ↑ डिफेन्स् टॉक् Archived २००८-०३-२५ at the Wayback Machine - परिवर्तमानस्य गोर्शकोव् यानस्य चित्रम्
- ↑ डिफेन्स् इन्डस्ट्री डैली ऐ एन् एस्(INS) विक्रमादित्य हिट्स् डिले , कॉस्ट् इन्क्रिसेज़्
- ↑ मूल्यवृद्धिः विषये एन् डी टीवी (NDTV) न्यूज़् क्लिप्
- ↑ यदि भारतदेशः $२ बिलियन् दातुं सिद्धः चेत् रशियादेशीय-विमानवाहकनौयानस्य प्राप्तिर्भविष्यति
- ↑ कमिटी अन् सिक्युरिटी(सी सी एस्)
- ↑ "रशियादेशस्य राष्ट्रपतेः मन्तव्यः विक्रमादित्यविषये". Archived from the original on 2011-06-06. आह्रियत 2014-01-07.
- ↑ "विक्रमादित्यविषये रशिया-भारतयोर्मध्ये सहमतिः". Archived from the original on 2010-03-17. आह्रियत 2014-01-07.
- ↑ "Antony to Visit Russia to Commission INS Vikramaditya and for Defence Talks". रक्षामन्त्रालयः, भारतसर्वकारः. 14 नवंबर 2013. आह्रियत 16 नवेम्बर् 2013.
- ↑ "गोर्शकोव्-नौयानस्य निम्नतलस्य नवीकरणं समाप्तम्". Archived from the original on 2011-09-16. आह्रियत 2014-01-07.
- ↑ Christopher P. Cavas (December 8, 2008). "Russian Carrier Conversion Moves Forward". Archived from the original on February 28, 2017. आह्रियत December 10, 2008.
- ↑ http://timesofindia.indiatimes.com/India/Gorshkov-to-be-handed-over-to-India-by-Dec-12/articleshow/5995560.cms
बाह्यसम्पर्काः
सम्पादयतु- वीडियो: ऐ एन् एस् (INS) विक्रमादित्य हिट्स् वॉटर्
- डिफेंस् इंडस्ट्री डेली -ऐ एन् एस् (INS) विक्रमादित्य हिट्स् डिले, कॉस्ट् इन्क्रिसेज़् कार्यक्रमस्य पूर्णः इतिहासः, वायुविषयकस्य पूरकः, तथा संबन्धितघटनानाम् आवरणम् करोति।
- ऐ एन् एस्(INS) विक्रमादित्यः - भारतरक्षकः Archived २०१२-०७-१० at the Wayback Machine
- पृथिव्याः विमानवाहकनौयानानां चित्राणि, मॉडल्, तथा तथ्यानि Archived २०१०-०९-२२ at the Wayback Machine
- रशियादेशेन भारतं विमानवाहकनौयानस्य पुनर्निर्माणकरणप्राप्तिः (भागः १)
- पुनर्निर्मितस्य विक्रमादित्यस्य नवीनतमानि चित्राणि!!! Archived २००९-१२-२८ at the Wayback Machine
- ऐ एन् एस्(INS) विक्रमादित्यस्य नवीनतम वीडियो![नष्टसम्पर्कः]
- गूगल् मैप्स् (Google Maps) द्वारा सेवेरॉद्वीन्स्क् स्थानके ऐ एन् एस् (INS)विक्रमादित्यस्य उपग्रहचित्रम्
- Images of INS Vikramaditya
- Aviation trials of INS Vikramaditya to begin in mid-July Archived २०१३-१०-३१ at the Wayback Machine
- INS Vikramaditya
- Indian Navy INS Vikramaditya Sea Trial on YouTube