प्रमुखा विकल्पसूचिः उद्घाट्यताम्

उज्जैन ( /ˈʊɛɪnə/) (हिन्दी: उज्जैन, आङ्ग्ल: Ujjain) इत्येतन्नगरं मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतस्य उज्जैनमण्डलस्य केन्द्रम् अस्ति ।

उज्जैन-नगरम्

Ujjain
उज्जैन-नगरम्
द्वादशज्योतिर्लिङ्गेषु अन्यतमः महाकालेश्वरः
मध्यप्रदेश राज्यस्य मानचित्रे उज्जैन नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे उज्जैन नगरम्
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् उज्जैनमण्डलम्
महानगरविस्तारः १५२ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ५,१५,२१५
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body उज्जैन म्युनिसिपल् कोर्पोरेशन्
 • महापौरः रामेश्वर अखण्ड
 • म्युनिसिपल कमीशनर् श्री परमार
Time zone UTC+५:३० (भारतीयमानकसमयः(IST))
पिनकोड
४५६ ०XX
Area code(s) ०७३४
Vehicle registration जीजे-१३
साक्षरता ८५.५५%
भाषाः हिन्दी, आङ्ग्लं, मालवी
लिङ्गानुपातः पु.-५०%, स्त्री.-४७%
Website Ujjain Municipal Corporation

उज्जैन-नगरं भारतस्य मध्यप्रदेशराज्यस्य प्रमुखं नगरम् अस्ति । पुरा इदं नगरम् उज्जयिनी इति नाम्ना प्रसिद्धम् आसीत् । इदं नगरं क्षिप्रानद्याः तटे स्थितम् अस्ति । इदम् एकं प्राचीनं नगरम् अस्ति । इदं विक्रमादित्यस्य राज्यस्य केन्द्रम् आसीत् । इदं नगरं कालिदासनगरी इत्यपि ख्यातम् अस्ति । अत्र प्रतिद्वादशवर्षेषु एकवारं सिंहस्थकुम्भोत्सवः (महाकुम्भमेला) भवति । भगवतः शिवस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमं महाकालेश्वर-नामकं ज्योतिर्लिङ्गम् अस्मिन् नगरे स्थितमस्ति । उज्जैन-नगरं मध्यप्रदेशराज्यस्य इन्दौर-महानगरात् ५५ कि. मी. दूरे अस्ति । अस्य प्राचीनानि नामानि – अवन्तिका, कनकशृङ्गा इत्यादीनि ग्रन्थेषु मिलन्ति । इदम् मन्दिराणां नगरम् अस्ति । अत्र अनेकानि तीर्थभूतानि द्रष्टव्यानि स्थानानि सन्ति ।

अन्तर्विषयाः

जनसङ्ख्यासम्पाद्यताम्

२०११ जनगणनानुगुणं उज्जैन-नगरस्य जनसङ्ख्या ५,१५,२१५ अस्ति । अत्र २,६५,२९१ पुरुषाः, २,४९,९२४ महिलाः च सन्ति । भारतस्य महानगरेषु उज्जैन-नगरस्य ७५ क्रमाङ्कः अस्ति । अत्र पुं-स्त्री अनुपातः १०००-९४२ अस्ति । अत्र साक्षरता ८५.५५% अस्ति ।

भौगोलिकी स्थितिःसम्पाद्यताम्

उज्जैननगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३ º१८ उ. एवं ७५ º७७ पू. अस्ति । अत्र ग्रीष्मर्तौ उष्णता, शीतर्तौ सामान्यशीतलता भवति । वर्षर्तुः सामान्यतः जून-मासतः सितम्बर-मासाभ्यान्तरं भवति ।

इतिहासःसम्पाद्यताम्

राजनैतिकः इतिहासस्तु उज्जैन-नगरस्य लम्बमानः अस्ति । अस्य गढक्षेत्रस्य खनने आद्यैतिहासिकी (protohistoric) प्रारम्भिकी च लोहयुगीनाः सामग्र्यः अधिकामात्रायां प्राप्ताः । पुराणेषु उल्लेखो वर्तते यत् वृष्णिवीरकृष्णबलरामाः अत्र सांदीपनिगुरोः आश्रमे पठनार्थम् आगताः । कृष्णस्य एका पत्नी मित्रवृन्दा उज्जैन-नगरस्य राजपुत्री आसीत् । तस्याः द्वौ भ्रातारौ विन्दः अनुविन्दश्च आस्ताम् । तौ महाभारतयुद्धे कौरवपक्षात् वीरगतिं प्राप्तवन्तौ । षड्शताब्द्याम् उज्जैन-नगरे अत्यन्तः प्रतापवान् चण्डप्रद्योताख्यः कश्चन राजा आसीत् । अन्याः शासकाः तस्मात् भीताः आसन् । तस्य दुहिता वासवदत्तायाः एवं वत्सनरेशस्य उदयनस्य प्रणयगाथा इतिहासप्रसिद्धा अस्ति । अस्य राज्यस्य मगधराज्येन सहापि सम्बन्धो इति मन्यते । मेघदूते काव्ये महाकविः कालिदासः उज्जैन-नगरस्य विक्रमादित्यस्य सभागृहस्य नवरत्नेषु एकः आसीत् । तस्य उज्जैन-नगरं प्रियमासीत् । अतः मेघदूते काव्ये उज्जैन-नगरस्य अत्यन्तं सुन्दरं वर्णनं कालिदासेन कृतमस्ति । राजा विक्रमादित्यः एव कालिदासस्य आश्रयदातृरूपेण विख्यातोऽस्ति ।

मालवा-प्रदेशं प्रति कालिदासस्य गहना आस्था आसीत् । उज्जैन-नगरे एव तस्य अत्यधिकः प्रवासकालः व्यतीतः जातः । अत्र एव कालिदासेन उज्जैन-नगरस्य प्राचीनम् एवं महावैभवं दृष्टम् । अत्रत्यानाम् अट्टालिकानां, उदयनवासवदत्तयोः प्रणयकथायाः, भगवत्शङ्करस्य सांयकालीनारार्तिक्यस्य तथा क्षिप्रानद्याः पौराणिकं महत्त्वम् अपि विशिष्टं मन्यते ।

मेघदूते कालिदासेन उज्जैन-नगरस्य वर्णने उक्तं यत् – यदा स्वर्गीयानां जनानां स्वस्य पुण्यक्षीणस्थितौ पृथ्वीं अवतरणमभवन् तदा तेषां कृते भगवता विचारितं यत् स्वर्गस्य एकः खण्डः अत्र आनेयः, इत्थं निश्चीय भगवता तदेव स्वर्गखण्डः उज्जैन-नगरं रचितम् ।

वर्तमानसमये यद्यपि उज्जैन-नगरस्य तादृशं पुरातनं वैभवं लुप्तं जातं, तथापि विश्वस्मिन् उज्जैन-नगरस्य धार्मिकपौराणिकैतिहासिकमहत्वं तथा ज्योतिषक्षेत्रेऽपि अपि प्रसिद्धिरस्ति । तस्य स्थानं भारतस्य सप्तपुराणप्रसिद्धासु नगरीषु वर्तते । सिंहस्थकुम्भमहापर्वणि अनेके भक्तजनाः, साधवः, महात्मानः मोक्षार्थं तत्र गच्छन्ति ।

प्रामाणिकः इतिहासःसम्पाद्यताम्

उज्जैन-नगरस्य इतिहासः ईस्वीयतः ६०० वर्षं पूर्वतः प्राप्यते । तस्मिन् समये भारते षोडश (१६) साम्राज्यानि आसन् । तेषु एकं साम्राज्यम् ’अवन्ति’ इत्यपि आसीत् । अवन्त्याः द्वौ विभागौ आस्ताम् । एकं औत्तरीयभागः, अपरः दाक्षिणात्यभागः । उत्तरभागस्य केन्द्रम् उज्जैन-नगरं, दक्षिणभागस्य महिष्मती च आसीत् । तत्समये चण्डप्रद्योतः नामकः सम्राट् आसीत् । प्रद्योतवंशजानां तृतीयशताब्दिपर्यन्तं प्रभुत्वमासीत् ।

मौर्यवंशस्य साम्राज्यम्सम्पाद्यताम्

अत्र चन्द्रगुप्ताख्यः सम्राट् आगतवान् । अस्य पुत्रः अशोकः राज्यपालः आसीत् । तस्य एका पत्नी वेदिसादेवी आसीत् । तस्याः महेन्द्र-संघमित्रौ एतौ द्वौ पुत्रौ आस्ताम् । याभ्यां बौद्धधर्मस्य प्रचारः श्रीलङ्का-देशे कृतः । मौर्यसाम्राज्यस्य अभ्युदयात् परं मगधराजस्य बिन्दुसारस्य पुत्रः अशोकः उज्जैन-नगरे नियुक्तः जातः । बिन्दुसारस्य मरणानन्तरं अत्र अशोकेन शासनं कृतम् । अशोकेन उज्जैन-नगरस्य विकासः कृतः । अशोकात् परम् अनेकेषां राज्ञाम् आवागमनमभवत् ।

मौर्य-साम्राज्यस्य नाशःसम्पाद्यताम्

मौर्य-साम्राज्यस्य नाशात् परम् उज्जैन-नगरं शकानां सप्तवाहनानां प्रतिस्पर्धायाः केन्द्रमभूत् । राज्ञा विक्रमादित्येन शकानाम् आक्रमणं विफलं कृतम् । कालान्तरे वैदेशिकैः पाश्चात्यशकैः उज्जैन-नगरं जितम् । ’चष्टान’, ’रूद्रदमन’ इमौ द्वौ प्रतापिनौ महाक्षत्रपौ आस्ताम् ।

गुप्त-साम्राज्यम्सम्पाद्यताम्

चतुर्थशताब्द्यां गुप्तवंशीयैः राजभिः ’औलिकर’ इत्येतैः मालवा-प्रान्तात् शकानां आधिपत्यं नाशितम् । शकानां गुप्तवंशीयानां शासनकाले अस्य नगरस्य अद्वितीयः आर्थिकः औद्योगिकश्च विकासः जातः । सप्तमशताब्द्यां नगरस्य सर्वाङ्गीणः विकासोऽभवत् । ई. ६४८ तमे वर्षे हर्षवर्धनस्य मृत्योः परं नवमशताब्दिपर्यन्तं परमार इत्येषाम् आधिपत्ये उज्जैन-नगरम् आगतम् । तत्पश्चात् एकादशतमशताब्द्यां तौमर-चौहान इत्येषाम् अधिकारे उज्जैन-नगरम् आगतम् । १००० तः १३०० ई. पर्यन्तं मालवा-प्रदेशे परमार-इत्येषां शासने अभूत् । दीर्घकालं यावत् तस्य केन्द्रं उज्जैन-नगरम् आसीत् । अस्मिन् काले सीयक-द्वितीयः, मुंजदेवः, भोजदेवः, उदयादित्यः, नरवर्मन् इत्याख्याः शासकाः साहित्यकलासंस्कृतीनाम् अभूतपूर्वां सेवां कृतवन्तः ।

दिल्ली-शासनम्सम्पाद्यताम्

दिल्ली-नगरे खिलजी सुल्तान इत्यादि यवनानाम् आक्रमणेन परमार-इत्यस्य वंशस्य नाशः जातः । ई. १२३५ तमे वर्षे दिल्ली-नगरस्य शमशुद्दीन इल्तमिश इत्याख्येन राज्ञा विदिशा नगरीं जित्वा उज्जैन-नगरे आगत्य सम्पत्तिः लुण्ठितः । ततः परं धार्मिकस्थलानां वैभवमपि नाशितम् । ई. १४०६ तमे वर्षे मालवा-प्रान्तः दिल्ली-शासनात् मुक्तो जातः । तदनन्तरं मालवप्रान्तस्य शासनकेन्द्रं ’धोरी’ इत्यभवत् । ततः परम् ’अकबर- जहाँगीर-शाहजहाँ-औरङ्ग्जेब’ इत्यादयः अत्र आगताः ।

मराठा-शासनम्सम्पाद्यताम्

ई. १७३७ तमे वर्षे उज्जैन-नगरं सिन्धिया-वंशजानाम् अधिकारे आगतम् । सिंधिया-वंशस्य केन्द्रम् उज्जैन-नगरमभवत् । राणोजी सिंधिया इत्यनेन महाकालेश्वरमन्दिरस्य जीर्णोद्धारः कारितवान् । अस्य वंशस्य संस्थापकस्य राणोजी सिंधिया इत्यस्य मन्त्री ’रामचन्द्र शेणवी’ इत्याख्यः वर्तमानस्य मन्दिरस्य निर्माणं कारितवान् । ई. १८१० तमे वर्षे सिंधियावंशजाः इमं केन्द्रं ग्वालियर-नगरं प्रति नीतवन्तः किन्तु उज्जैन-नगरस्य सांस्कृतिकः विकासः निरन्तरमभवत् । ई. १९४८ तमे वर्षे ग्वालियर-राज्यस्य मध्यभारते विलयो जातः ।

वीक्षणीयस्थलानिसम्पाद्यताम्

उज्जैन-नगरे अद्यापि अनेकानि धार्मिकपौराणिकैतिहासिकानि स्थानानि सन्ति । येषु महाकालेश्वरः ज्योतिर्लिङ्गः, गोपालमन्दिरं, चौबिस खम्बादेवी, चौसठ योगिनी, नगर कोट की रानी, हरसिद्धिमन्दिरं, गढकालिका, कालभैरवः, विक्रान्तभैरवः, मङ्गलनाथः, सिद्धवटः, बोहरो का रोजा, बिना नींव की मस्जिद, गजलक्षीमन्दिरं, बृहस्पतिमन्दिरं, नवग्रहमन्दिरं, भूखी माता, भर्तृहरि गुफा, पीरमछन्दरनाथ स्मारकं, कालियादेह पैलेस, कोठी महल, घण्टाघर, जन्तर-मन्तर महल, चिन्तामन गणेशः, इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति।

अद्यतनम् उज्जैन-नगरम्सम्पाद्यताम्

अद्यतनम् उज्जैन-नगरं विन्ध्यपर्वतमालायाः तथा पवित्रा-ऐतिहासिकी-क्षिप्रानद्याः तटे सिन्धुतलात् १६७८ फीट उपरि २३°५०’ उत्तरदेशांशे तथा ७५°५०’ पूर्व-अक्षांशे स्थितम् अस्ति । नगरस्य तापमानः वातावरणञ्च समशीतोष्णम् अस्ति । अत्रत्या भूमिः उर्वरा अस्ति । कालिदासेन बाणभट्टेन च नगरस्य सुन्दरता वर्णिता । कालिदासेन लिखितम् अस्ति यत् संसारस्य सर्वाणि रत्नानि उज्जैन-नगरे एव सन्ति । सिन्धूनां समीपे तु केवलं जलम् एव । उज्जैन-नगरस्य एवं मालवप्रदेशस्य भाषा मधुरा मालवी इति अस्ति । क्षिप्रानद्याः तटे तु प्राकृतिकसौन्दर्यस्य दर्शनं विशिष्टमस्ति । उत्तरतः दक्षिणदिशं प्रति गच्छन्ती मालवप्रदेशं पावयन्ती प्रवहति । अत्र त्रिवेण्यां नवग्रहमन्दिरम् अस्ति । इदानीं यम् उज्जैन-नगरम् इति नाम्ना विख्यातमस्ति तन्नगरं भूतकाले अवन्तिका, उज्जयिनी, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णश्रृङ्गा, अमरावती इत्यादीभिः नामभिः प्रसिद्धमासीत् । मानवसभ्यतायाः प्रारम्भादेव इदं नगरं भारतस्य एकं तीर्थस्थलरूपेण विकसितः आसीत् । सप्तपुरीषु इदं मोक्षदायकं एकं मन्यते ।

उज्जैन-नगरस्य गौरवम्सम्पाद्यताम्

उज्जैन-नगरस्य महाकालेश्वरमन्दिरं द्वादशज्योतिर्लिङ्गेषु एकम् अस्ति । महाकालेश्वरमन्दिरस्य माहात्म्यं विभिन्नेषु पुराणेषु विस्तृतरूपेण वर्णितमस्ति । उज्जैन-नगरं भारतस्य कालगणनायाः केन्द्रबिन्दुः आसीत् एवं च महाकालः उज्जैन-नगरस्य अधिपतिदेवः मन्यते । अत्र ज्योतिर्लिङ्गस्य जलप्रवाहिका दक्षिणदिशं प्रति वहति । महाकालेश्वस्य तांत्रिकपरम्परायाकारणेन दक्षिणमुखी प्रवाहः मन्यते । तृतीये खण्डे स्थापितस्य नागचन्द्रेश्वरस्य मूर्त्याः दर्शनं नागपञ्चम्याः दिवसे एव भवति । इदं मन्दिरं महाकालसमितेः तत्वाधाने संरक्षितम् अस्ति ।

श्री बडे-गणेशमन्दिरम्सम्पाद्यताम्

श्रीमहाकालेश्वरमन्दिरस्य समीपे हरसिद्धिमार्गे बडे-गणेशस्य भव्यकलापूर्णमूर्तिः प्रतिष्ठिता अस्ति । अस्याः मूर्त्याः निर्माणं पद्मविभूषणस्य पं. सूर्यनारायणव्यासस्य पित्रा विदुषा स्व. पं. नारायणव्यासेन कृतम् अस्ति । सप्तधातुनिर्मिता पञ्चमुखिहनुमत्प्रतिमा, नवग्रहाणां मन्दिरम् तथा कृष्णयशोदयोः प्रतिमे अपि विराजितो स्तः ।

मङ्गलनाथ-मन्दिरम्सम्पाद्यताम्

पुराणानामनुसारेण उज्जैन-नगरीं मङ्गलग्रहस्य जननी उच्यते । येषां जनानां जन्मकुण्डल्यां मङ्गलः अनिष्टः स्यात् , ते सर्वे जनाः अनिष्टदोषात् निवृत्यर्थम् अत्र पूजां कारयन्ति । यद्यपि भगवतः मङ्गलस्य बहूनि मन्दिराणि सन्ति किन्तु उज्जैन-नगरम् अस्य जन्मस्थानं वर्तते अतः महत्त्वम् अपि अधिकम् अस्ति । उच्यते यत् इदं मन्दिरं अतीव पुरातनमस्ति । सिंधियावंशजैः अस्य पुनर्निर्माणं कारितम् । उज्जैन-नगरं महाकालस्य नगरी उच्यते अतः जनाः तत्र भगवतः मङ्गलनाथस्य शिवरूपात्मिकायाः प्रतिमायाः पूजनं कुर्वन्ति । प्रतिमङ्गलवासरे तत्र बहवः भक्तजनाः गच्छन्ति ।

हरसिद्धिदेवीसम्पाद्यताम्

उज्जैन-नगरस्य धार्मिकस्थलेषु हरसिद्धिदेव्याः मन्दिरं प्रमुखम् अस्ति । चिन्तामनगणेश-मन्दिरात् किञ्चित् दूरे तथा रूद्रसागर-तडागस्य तटे इदं मन्दिरं स्थितमस्ति । राजा विक्रमादित्यः अस्याः देव्याः पूजां करोति स्म । वैष्णवसम्प्रदायस्यापि आराध्यदेवीरूपेण इयं हरसिद्धिदेवी पूज्यते । शिवपुराणानुसारेण दक्षयज्ञात् परं सतीदेव्याः हस्तगुल्फः (Elbow) अत्र पतितः आसीत् ।

क्षिप्रा तटसम्पाद्यताम्

उज्जैन-नगरस्य धार्मिकस्वरूपे क्षिप्रानद्याः तटानां प्रमुखं स्थानं वर्तते । नद्याः दक्षिणतटे नगरं स्थितमस्ति, तत्र तटानि स्नानार्थिनां कृते सोपानयुतानि सन्ति । विभिन्नानां देवतानां नूतनानि पुरातनानि च मन्दिराणि अपि स्थितानि सन्ति । सिंहस्थमहापर्वणि यदा बहवः भक्तजनाः स्नानं कुर्वन्ति तदा एषां गौरवं दृश्यते ।

गोपाल-मन्दिरम्सम्पाद्यताम्

गोपालमन्दिरम् उज्जैन-नगरस्य विशालमन्दिराणां क्रमे द्वितीयमस्ति । इदं मन्दिरं नगरस्य मध्येऽधिकजनसम्मर्दे क्षेत्रे स्थितमस्ति । अस्य मन्दिरस्य निर्माणं दौलतराव-सिंधिया इत्यस्य महिषी बायजाबाई-इत्यनया ई. १८३३ तमे वर्षे कारितम् । कृष्णस्य (गोपाल) मूर्तिः मन्दिरेऽस्मिन् वर्तते । रजतयुतानि द्वाराणि अस्य मन्दिरस्य आकर्षणकेन्द्राणि सन्ति ।

गढकालिकादेवीसम्पाद्यताम्

गढकालिकादेवी-मन्दिरम् उज्जैन-नगरस्य प्राचीने अवन्तिकाक्षेत्रे स्थितमस्ति । कालिदासः गढकालिकदेव्याः उपासकः आसीत् । राज्ञा हर्षवर्धनेन अस्य मन्दिरस्य जीर्णोद्धारः कारितः एतादृक् उल्लेखः प्राप्यते । शासनकाले ग्वालियर-प्रान्तस्य महाराजस्य शासनकाले अस्य मन्दिरस्य पुनर्निर्माणम् अभवत् ।

भर्तृहरि-गुफासम्पाद्यताम्

भर्तृहरि-गुफा इत्यत्र एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनः पुन्येन जीर्णोद्धाराः अभवन् ।

कालभैरवःसम्पाद्यताम्

कालभैरवस्य मन्दिरम् इदानीम् अवन्तिकानगर्याम् अस्ति । मन्दिरेऽस्मिन् कालभैरवस्य विशालमूर्तिः अस्ति । उच्यते यत् अस्य मन्दिरस्य निर्माणं प्राचीनकाले राज्ञा भीमसेनेन कारितम् । पुराणेषु वर्णितेषु भैरवेषु एकः कालभैरवः अस्ति ।

सिंहस्थकुम्भपर्वसम्पाद्यताम्

सिंहस्थकुम्भपर्व उज्जैन-नगरस्य महोत्सवः वर्तते । प्रतिद्वादशवर्षेषु यदा बृहस्पतिः सिंहराशौ, सूर्यः मेषराशौ च स्थितौ भवतः तदा इदं पर्व आयोज्यते । अतः सिंहस्थ इति नाम । पर्वणः स्नानस्य आरम्भः चैत्रमासस्य पूर्णिमा-तः वैशाखमासस्य पूर्णिमा-पर्यन्तं प्रचलति । भारतदेशे चतुर्षु स्थानेषु कुम्भपर्वणः आयोजनं भवति । सिंहस्थायोजनस्य एका प्राचीना परम्परा अस्ति । अनेकाः कथाः प्रचलिताः सन्ति । अमृतबिन्दूनां विनिपाते काले सूर्यः, चन्द्रः, बृहस्पतिः इत्येतेषां स्थितिः यादृशी आसीत् तादृशी एव स्थितिः इदानीम् अपि यदा भवति तदा कुम्भमहापर्वणः आयोजनं भवति ।

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=उज्जैन&oldid=431283" इत्यस्माद् पुनः प्राप्तिः