पम्पाक्षेत्रे मयणार्यो नाम विप्रः निवसति स्म । सः वैदिकधर्मपरायणः सदाचारसम्पन्नश्र्च आसीत् । तस्य पत्नी श्रीमतिदेवी । सापि धर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना खिद्यतः स्म । पुत्रकामनया ताभ्यां तपः तप्तम्, तीर्थयात्रा अनुष्ठिता, देवपूजा च विहिता । दैवानुग्रहात् श्रीमतीदेवी सुतमसूत । तेन सन्तुष्टौ तौ दम्पती । जातस्य पुत्रस्य मायणार्यः जातकर्मादिसंस्कारान् कृतवान् । एकादशे अहनि पिता तस्या 'माधव' इति नाम अकरोत् । माधवस्य अनुजौ सायण-भोगनाथौ । तस्य अनुज सिङ्गला । ते त्रयः सहोदराः अपि सत्यसन्धाः धार्मिकाः तपोनिष्ठाः च आसन् । राजधर्मे अपि परं प्रावीण्यम् अलभन्त । श्रद्धया वेदाध्ययनमपि तैः कृतम् ।

इतिहासे त्रयोदशशतकम् सर्वदा अस्माभिः स्मर्तव्यमेव । कारणं साधकानां साधनादि यथा ख्यातिमवाप तथैव तुरूष्काणाम् आक्रमणेन उद्विग्नाः हैन्दवः सन्त्रासितासश्र्च । अस्माकं संस्कृतिं सम्पत्तिञ्च विनाशयितुमेव समुत्पन्नाः नीचाः, एवं तैः संस्कृतेः रक्षणमगत्यं कर्तव्यमिति मत्वा 'माधवः' एव तुरीयाश्रमाम् स्वीक्रुत्य 'विद्यारण्यः इति प्रथितः अभवत् ।

स्मरणीयः अयं महान् चेतनः शङ्करभगवत्पादानाम् अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करोत् । अस्य मार्गदर्शने एव श्रृङ्गगिर्यां तथा पम्पाक्षेत्रे देवालयादिकम् विनिर्मितमिति अवगच्छाम ऎतिह्येन । न केवलमयं संन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पोषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्येव प्रसिद्धः अस्ति । अद्यापि काव्यमिदं शङ्करजयन्त्यां सर्वैः गीयते तथा स्मर्यन्ते च जनैः ।

श्रीविद्यारण्ययतिः तुङ्गभद्रातीरे शोभमानं पम्पाक्षेत्रम् अध्यतिष्ठत् । अराजके तस्मिन् राज्ये राजानं समीक्षमाणः आसीत् । तदैव कदाचित् युवानौ आगतौ । तौ च यदुवंशंजातौ, शौर्यसम्पन्नौ, राजलक्षणयुतौ सुन्दरौ, सूर्यचन्द्राविव कान्तियुक्तौ आस्ताम् । तावेव हरिहरबुक्कनामानौ । तौ यतिं श्रीविद्यारण्यम् उपसृत्य सप्रणामम् एवम् अवदताम् - "आवाम् अस्य राज्यस्य राजवंशीयौ, सम्प्रति राज्यकोषाभ्यां विहीनौ अटन्तौ स्वः" ।

यतिर्विद्यारण्यः ताभ्याम् उक्तं विषयं श्रुत्वा समीहितं सिद्धं इति अमन्यत । अतः तौ शिष्यत्वेन स्वीकृतवान् । श्रीविद्यारण्येन शिक्षितौ तौ । सर्वराजगुणपरिपूर्णौ प्रजानुरागिणौ च अवर्धताम् । तौ पूरस्कृत्य "शालिवाहनशके धातुसंवत्सरे वैशाखशुद्धसप्तम्यां गुरूवासरे (क्रि.श.१३३६) अस्थापयन् च स्वतन्त्रं साम्राज्यम् । भूमिरियं वीरबहुलेतिमत्वा तस्य साम्राज्यस्य 'विजयनगरम्' इति सार्थकं नाम अकरोत् । तत्रैव राजगुरुः विद्यारण्यः हरिहरं राज्ये सिंहासने प्रतिष्ठाप्य अभिषिक्तवान् । श्रीविद्यारण्येन उपदिष्टं मार्गम् अनुसरन् हरिहरः निरातङ्कं प्रजाः प्रर्यपालायत् । हरिहरे राज्यं शासति सति प्रजाजनाः सर्वे सुखिनः धर्मरताश्र्च जीवनम् अकुर्वन् । तदा वाणिज्यम् अतिशयेन अवर्धत । कृषिक्षेत्रं समृद्धिम् अलभत । साहित्यं कला संस्कृतिश्र्च नितराम् उन्नतिम् अवाप । अत एव भरतखण्डे विजयनगरसाम्राज्यकालः 'सुवर्णयुगम्' इति प्रथितः ।

सकलवेदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवेकः इत्यादीन् अनेकान् ग्रन्थान् अरचयत् । एतेन वेदे शास्त्रे दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमे वर्षे (अष्टाशीत्युत्तरत्रयोदशशततमे वर्षे) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षेत्रे विराजते ।

panchadasi ==External links==

सम्बद्धाः लेखाः

सम्पादयतु

सकलवेदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवेकः इत्यादीन् अनेकान् ग्रन्थान् अरचयत् । एतेन वेदे शास्त्रे दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमे वर्षे (अष्टाशीत्युत्तरत्रयोदशशततमे वर्षे) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षेत्रे विराजते ।

"https://sa.wikipedia.org/w/index.php?title=विद्यारण्यः&oldid=480957" इत्यस्माद् प्रतिप्राप्तम्