विभाण्डकः
अस्मिन् लेखे इतोऽपि उल्लेखाः अपेक्ष्यन्ते। (February 2013) |
विभाण्डकः | |
---|---|
Information | |
अपत्यानि | ऋष्यश्रृङ्गः |
विभाण्डकः कश्यपगोत्रस्य प्रसिद्धः ऋषिः। तस्य पुत्रः ऋष्यश्रृङ्गः रामायणे प्रसिद्धः।
आश्रमःसंपादित करें
महाभारतस्य वनपर्वणः कथायां ऋषेः विभाण्डकस्य आश्रमः कौशिकी नाम देवनद्याः समीपे आसीदिति श्रूयते। कौशिकी नाम देवनदी कुन्वरी अथवा क्वारी इत्यपि परिचिता। भिण्ड् इति पत्तनम् एतस्य ऋषेः कारणेन प्रसिद्धम्। विभाण्डकस्य अथवा भिण्डि ऋषेः पुरातनः देवालयः भिण्ड् प्रदेशे अधुनापि विद्यते।
पार्मल्रसो इति ग्रन्थात् ज्ञायते यत् राजा पृथ्विराजचौहाणः सिरसागढसङ्ग्रामे चाण्डेलैः सह युद्धात्पूर्वं घोरारण्ये विद्यमाने विभाण्डकस्य समाधिस्थले उषितवानिति। अपि च सेनाधिपतिं मल्खानं पराजितवान्।
पाण्डवाः वनवासे तस्य आश्रमम् आगत्य अग्रे गतवन्तः इति कथा वर्तते।अस्मिन् स्थले वनखण्डेश्वरस्य देवालयः विद्यते। अयं देवालयः पृथ्विराजचौहाणेन निर्मितः।
अद्वैतमठाःसंपादित करें
आदिशङ्करेण चत्वारः मठाः संस्थापिताः। भारतस्य पश्चिमभागे द्वारकायां पूर्वभागे जगन्नाथपुर्यां दक्षिणभागे श्रृङ्गगिरौ उत्तरभागे बदर्यां एते मठाः सन्ति।.[१] एतेषु मठेषु पीठाधिकारी वेदन्तसम्प्रदायं प्रतिपादयति।
एते मठाः आदिशङ्करेण न निर्मिताः परन्तु ते विभाण्डकस्य पुत्रस्य ऋष्यश्रृङ्गस्य च आश्रमाः आसन् इति पाण्डेयस्य अभिप्रायः। [२] शङ्करः द्वारकश्रृङ्गगिर्योः आश्रमद्वयं प्राप्य श्रृङ्गवेरपुरस्य आश्रमं बदर्यां अङ्गदेश्स्य आश्रमं जगन्नाथपुर्यां परिवर्तितवानिति।[३]
टिप्पणिःसंपादित करें
- ↑ Sankara Acarya Biography - Monastic Tradition फलकम्:Webarchive
- ↑ Pandey 2000, pp. 4–5.
- ↑ Pandey 2000, p. 5.
ग्रन्थ ऋणम्संपादित करें
- Pandey, S.L. (2000). Pre-Sankara Advaita. In: Chattopadhyana (gen.ed.), "History of Science, Philosophy and Culture in Indian Civilization. Volume II Part 2: Advaita Vedanta". Delhi: Centre for Studies in Civilizations.