वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, इतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्र आसन् । भरद्वाजमहर्षेः यन्त्रसर्वस्वम्, अगस्त्यस्य शक्तिसूत्रम्, ईश्वरस्य सौदामिनीकला, भारद्वाजस्यैव अंशुमत्तन्त्रं, शाकटायनस्य वायुतत्वप्रकरणं वैश्वमारुततन्त्रं च, नारदस्य धूमप्रकरणम् इत्यादीनां विमानशास्त्रसम्बध्दानां ग्रन्थानाम् उल्लेखः दृश्यते । भोजस्य समराङ्गणसूत्रधारः, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः, दुण्ढिनाथस्य व्योमयानार्कप्रकाशिका, चक्राय्निमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बध्दाः एव ॥ विमानस्य अवरोहणकाले, भूस्पर्शसमये चैव अपघातस्य सम्भावना अधिका इति भारद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तरभयात् विषयोऽयं न विस्तार्यते ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=विमानशास्त्रम्&oldid=410459" इत्यस्माद् प्रतिप्राप्तम्