"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) बीदर् बीदरमण्डलम् प्रति प्रविचलित।
No edit summary
पङ्क्तिः १:
बीदर् मण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर् इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य बसवकल्याणतः आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव ।
'''बीदर्''' नगरः कर्नाटक प्रान्तॆ स्तिथ एकः नगरः च मण्डल |
अस्य मण्डलस्य चारित्रिकं महत्वम् अस्ति । अत्रैव बसवण्णमहोदयस्य बहमनिसुल्तानानां च काले [[नवशिलायुग]]स्य अवशेषाः लब्दाः । [[राष्ट्रकूट]]वंशजाः, [[देवगिरियादवाः]], [[काकतीयाः]] एतस्य मण्डलस्य शासनं कृतवन्तः । मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् मोघल् नृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बळ्ळारीमण्डलं निरूपितम् ।
==विस्तीर्णता==
५४४८ च.कि.मी. मिता।
==भैगोलिकता==
भौगोलिकतया बीदरमण्डलं [[हैद्राबाद्कर्णाटक]]भागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता [[मुल्लारी]] नदी गुल्बर्गमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
==संस्कृतिः==
अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदर् मण्डलस्य लघुकन्दरे नानक् झरा इति तीर्थं प्रवहति । एतत् सिख्खानां अतिपवित्रं स्थलम् अस्ति । वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
==प्रसिद्धाः व्यक्तयः==
डा.चेन्नबस पट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
==दर्शानीयानि स्थानानि==
पापनाशदेवालयः, मैलारमल्लणगुडि, नरसिंहझरि, नानक् झरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, [[कारञ्जाजलबन्धः]], जलसङ्गी देवालयः, औषधीयवनम्, वीरभद्रदेवालयः, [[अनुभवमण्टपम्]], अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
 
{{कर्नाटकस्य मण्डलाः}}
 
{{कर्णाटकस्य मण्डलानि}}
[[वर्गः:कर्नाटकस्य मण्डलाः]]
 
[[वर्गः:कर्णाटकस्य मण्डलानि]]
[[वर्गः:भारतस्य नगराणि]]
 
{{stub}}
[[वर्गः:नगरानिनगराणि]]
[[वर्गः:भारतस्य नगराणि]]
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्