"राबर्ट् कोख्" इत्यस्य संस्करणे भेदः

(कालः – ११. १२ .१८४३ तः २७. ०५ .१९१०) अयं राबर्ट् को... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २:
 
अयं राबर्ट् कोख् (Robert koch) ब्याक्टीरियाविज्ञानस्य पितामहः । अयं राबर्ट् कोख् जर्मन् देशस्य हानोवर् प्रदेशे १८४३ तमे वर्षे डिसेमबरमासस्य ११ दिनाङ्के जन्म प्राप्नोत् । अस्य पितुः १३ पुत्रेषु अयम् अपि अन्यतमः आसीत् । अस्य पिता खनितन्त्रज्ञः आसीत् । एषः राबर्ट् कोख् बाल्यादारभ्य अपि प्रकृतिविषये आसक्तः आसीत् । १८६६ तमे वर्षे वैद्यपदवीं प्राप्नोत् । अनन्तरं ५ वर्षाणि यावत् वैद्यालये कार्यम् अकरोत् । सः यदा वोल्स्टीन् प्रदेशस्य वैद्याधिकारी आसीत् तदा तत्रत्यानां मनुष्याणां रोगाणां निवारणेन सह पशुपक्षिणां रोगाणां निवारणस्य दायित्वम् अपि तस्यैव आसीत् । सः राबर्ट् कोख् तत् दायित्वद्वयम् अपि आसक्त्या श्रद्धया च निरवहत् । अग्रिमाणि दश वर्षाणि यावत् पुनः लघु लघु प्रदेशेषु कार्यं निरवहत् । किन्तु तस्य मनः प्रायोगशालायां कार्यं कर्तुम् इच्छति स्म ।
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/राबर्ट्_कोख्" इत्यस्माद् प्रतिप्राप्तम्