"वामनी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Acorus calamus1.jpg|thumb|150px|right|वामनीसस्यम्]]
 
एषा वामनी अपि [[भारतम्|भारते]] वर्धमानः सस्यविशेषः । इयं वामनी अपि सस्यजन्यः आहारपदार्थः । एषा वामनी आङ्ग्लभाषायां Sweet Flag अथवा Calamus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Acores calamus इति । एषा वामनी प्रायः [[औषधम्|औषधत्वेन]] एव उपयुज्यते सर्वत्र । अस्य वामनीसस्यस्य मूलं, भौमिकं काण्डं चापि औषधत्वेन उपयुज्यते । अन्यानि अङ्गानि तु न उपयुज्यन्ते । इयं वामनी गन्धद्रव्येषु यथा प्रमुखा तथैव औषधीयेषु सस्येषु अपि प्रमुखा एव । इयं वामनी जलबहुले प्रदेशे वर्धते सामान्यतयाय । हरिद्रा शुण्ठी इव मूलस्य खण्डात् नूतनं सस्यं वर्धयितुं शक्यते अस्याः वामन्याः अपि । इयं वामनी भूमौ अङ्कुरणादारभ्य ५ – ६ मासेषु उपयोगार्थं सिद्धा भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । प्रायः सर्वाभिः मातृभिः ज्ञातम् औषधीयं सस्यम् इदम् । इयं वामनी वचा उग्रगन्धा इत्यपि उच्यते
== इतरभाषासु अस्याः वामन्याः नामानि ==
इयं वामनी आङ्ग्लभाषयाAcorus Calamus इति उच्यते । हिन्दीभाषया“बजे” इति, तेलुगुभाषया“वडज” इति, तमिळ्भाषायां “चबनम्” इति, मलयाळभाषया“बावाम्ब” इति, कन्नडभाषया“बजे” अथवा “अतिबजे” इति उच्यते ।
== गॄहौषधरूपेण वामनी ==
अस्याः वामन्याः प्रयोजनानि अनन्तानि सन्ति । इयं रुचौ कटुः तथा तिक्ता च । इयं वामनी उष्णं वर्धयति । वामनी बालानां माता इव ।
१. वामनी स्मरणशक्तिं वर्धयति, वचसः स्खलनं निवारयति च ।
२. इयं वामनी शिरोवेदनां, कीलवेदनाम्, उदरवेदनां, पीनसं चापि शमयति ।
३. शिलायाः उपरि अस्याः वामन्याः मूलं सम्यक् उद्घर्ष्य मधुना सह सेव्यते चेत् बुद्धिशक्तिः, स्मरणशक्तिः च वर्धेते ।
४. एषा वामनी रोगनिरोधकशक्तिं वर्धयति । वचसि स्पष्टताम् उत्पादयति चापि ।
५. वामनी बालानां वयसः अनुगुणं १ मासस्य शिशुतः आरभ्य ५ वर्षाणां वयसः बालेभ्यः दातुं शक्यते । आरम्भस्तरे माषस्य गात्रस्य प्रमाणेन दातव्यम् । अनन्तरं क्रमेण वर्धयितुं शक्यते ।
६. बालेषु ज्वरस्य तापः वर्धते चेत् वामनीं दुग्धेन दह वा उष्णजलेन सह वा उद्घर्ष्य ललाटे लेपनीयम् ।
७. वामनी यदि अधिकप्रमाणेन सेव्यते तर्हि वमनं भवति ।
८. कीलवेदनायाम् उदरवेदनायां सत्यां च वामनीम् उद्घर्ष्य तद्भागे लेपयितुम् अपि शक्या ।
 
 
===आयुर्वेदस्य अनुसारम् अस्याः वामन्याः स्वभावः===
[[चित्रम्:Illustration Acorus calamus0.jpg|thumb|150px|right|वामनीसस्यं, मूलं, काण्डं, पुष्पं चापि]]
एषा वामनी कटुरसयुक्ता । एषा उष्णगुणयुक्ता, तीक्ष्णा चापि ।
Line ९ ⟶ २१:
:'''“वामनी कटुतीक्षोष्णा वातश्लेषरुजापहा ।'''
:'''कण्ठ्या मेध्या च कृमिहृद्विबन्धाध्मानशूलनुत् ॥“''' (धन्वन्तरीकोषः)
=== आयुर्वेदस्य अनुसारम् अस्याः वामन्याः स्वभावः=प्रयोजनानि ==
 
:१. एषा वामनी [[वातः|वातं]] [[कफः|कफं]] च हरति ।
"https://sa.wikipedia.org/wiki/वामनी" इत्यस्माद् प्रतिप्राप्तम्