"रामः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ६:
 
== [[अयोध्या|अयोध्यां]] प्रति [[विश्वामित्रः|विश्वामित्रस्या]]गमनम् ==
श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये [[सुबाहु]]-[[ताटका]]दीनां पीडां सोढुम् अशक्तः [[विश्वामित्रः]] एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं राम[[लक्ष्मणः।लक्ष्मणलक्ष्मणः|लक्ष्मण]]योः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु [[वसिष्ठः|वसिष्ठस्य]] सूचनानुसारं [[दशरथः]] वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः [[विश्वामित्रः|विश्वामित्रेण]] सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा ऋषिणां यागरक्षणस्य अभूतपूर्वं कार्यमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान्। बहू दीव्यशक्तीनां संग्रहः तैः स्वतपोबलेन कृतः। एतादृशः अभूतपूर्वः साहसः बाल्यादेव तेन कृतः।
 
== [[सीता]]स्वयंवरः ==
राक्षसानां वधानन्तरं महर्षिः विश्वमित्रः रामलक्ष्मणाभ्यां सह [[जनकः|जनक]]महाराजस्य आस्थाने [[सीता]]याः स्वयंवरः आयोजितः आसीत् तस्मिन् आयोजने संप्राप्तः ।यत्र शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । [[रावणः।रावणारावणः|रावणा]]दयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । सर्वैः स्वशक्त्या प्रयत्नः कृतः ।परं सर्वे पराजिताः । तदा विश्वामित्रस्य आदेशेन श्रीरामः यावत् शिवधनुषं उत्थाय तिष्ठति तावत् शिवधनुषं भयंकरध्वनिना द्विधा विभक्तः भवति। सर्वत्र प्रसन्नतायाः वातावरणं परिदृश्यते,सीता हर्षमुपगता। श्रीरामः विजयं प्राप्तवान् । रामः [[सीता|सीतां]] परिणीतवान् । तत्रैव लक्ष्मणः भरतः शत्रुघ्नश्च ऊर्मिला आदिभिः कन्याभिः सह परिणीताः। चत्वारो भ्रातरः प्रसन्नतया स्वगृहं अयोध्यां प्रत्यावर्तत। अयोध्यायां रामः सीता च सुखेन वसतः स्म। तस्य मृदुलता,जनसेवायुक्ता भावना,न्यायप्रियतायाः कारणेन सः अयोध्याजनेषु लोकप्रियः संजातः। राजा दशरथः वानप्रस्थं प्रति गम्यमानः आसीत्। अतः सः सर्वं राज्यं रामाय दातुमिच्छति स्म। जनाः अपि प्रसन्नाः अभवन् यतः तेषां प्रियः रामः राजा भविष्यति। तदा रामस्य अन्यौ द्वौ भ्रातरौ स्वमातुः गृहं गतौ आस्ताम्। तदा दुष्टभावनायुक्ता दासी मन्थरा कैकेय्याः मनसि दुष्टविचारान् निक्षिप्तवती। भरतः राजा भवेदिति तथैव रामः चतुर्दशवर्षपर्यन्तं वनं गच्छेत् यतः त्वं दशरथस्य प्रिया अतः त्वं वरान् याच। येन रामस्य कृते वनवासस्य आदेशः प्राप्तः । रामः पितुरादेशं मत्वा चतुर्दशवर्ष पर्यन्तं वनम् अगच्छत्।
 
== [[परशुरामः|भार्गवरामेण]] सह मेलनम् ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्