"हळेबीडु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Halebid5.JPG|thumb|'''हलेबीडु''']]
[[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] विद्यमाना एषा नगरी होय्सलराजानां राजधानी आसीत्। आदौ सोसेवूरु इति नाम आसीत् । ततः द्वारावती द्वारसमुद्रं हळेबीडु इति नाम प्राप्तमस्ति । एकादशशतकतः १४ शतकपर्यन्तं होय्सळानां राजधानी एषा नगरी वैभवेण दुर्गराजगृहादिभिः पूर्णा आसीत्। होय्सळेश्वरदेवालयः महोन्नतः द्विकूटदेवालयः अस्ति । नक्षत्राकारे आधाराङ्णे पूर्वाभिमुखम् अयं देवालयः शिलया निर्मितः अस्ति ।
पूर्वम् एतत् द्वारसमुद्रं, दोरसमुद्रम् इत्यादिभिः नामभिः प्रसिद्धं [[होय्सळाः|होय्सळानां]] राजधानी आसीत् | होय्सळराजानः साहित्यपोषकाः कलाराधकाः च आसन् । ते राजानः धार्मिकश्रद्धावन्तः कलासक्ताः इति कारणेन अनेकदेवालयान् निर्मितवन्तः । तेषां प्रोत्साहेन जडवस्तुनि पुष्पविकसनमिव सौन्दर्यदर्शनम् अभवत् इत्यस्य हळेबीडु एकं प्रत्यक्षम् उदाहरणम् अस्ति ।
विस्तृते अङ्गणे मण्डपद्वयम् अस्ति । तत्र नन्दीशस्य बृहत् विग्रहः लघुनन्दीविग्रहश्च स्तः । एकः होय्सळेश्वरः अपरः शान्तलेश्वरः । बाह्यावरणे विविधस्तरेषु प्राकारेषु निर्मितेषु- शिल्पेषु रामायणमहाभारतयोः कथानां विविधसन्निवेशानां चित्रणं कृतम् अस्ति।
होय्सळराजैः निर्मिते ८.९कि.मी.मिते दीर्घे दुर्गे प्रति १८० पादपरिमिते स्थले एकं दर्शनगोपुरम् अस्ति । दुर्गस्य चत्वारि द्वाराणि सन्ति । किन्तु सर्वाणि महम्मदीयानाम् आक्रमणैः नष्टाणि अभवन् ।
विविधशिलास्तरेषु गजानां सिंहानां अश्वानाम् उष्ट्राणां, लतानां च शिल्पाणि सन्ति । न केवलं तावत् भागवतकथाः शिवपुराणकथाः मकराणां हंसानां पङ्क्तयः अपि विराजन्ते । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।[[File:Halebid1.jpg|left|thumb|'''शिवपारवतिशिल्पः''']]
इदानीं राजधान्यां होय्सळेश्वरदेवालयः शान्तलेश्वरदेवालयः च स्तः । द्वयोः देवालययोः सङ्गमस्थानं नक्षत्राकारके पञ्चपादपरिमितोन्नते आधारप्राङ्गणे अस्ति । देवालयौ पूर्वाभिमुखौ । पुर्वदिशि द्वारद्वयम् । उत्तरे दक्षिणे च एकैकम् द्वारमस्ति । मध्ये भवनमस्ति नवरङ्गादन्तः गर्भगृहे होय्सळेश्वरशान्तलेश्वरयोः लिङ्गे स्तः । नवरङ्गे सुन्दरशिल्पानि सन्ति ।
:मार्गः -हासनरेलनिस्थानतः २७ कि.मी। बाणावरतः ३२ कि.मी।
उपरितन शिल्पाच्छादने भुवनेश्वरीचित्राणि सन्ति । स्तम्भेषु भित्तिषु शिल्पानि सन्ति । प्रशान्तम् मन्दिरम् अस्ति एतत् ।अत्र शिवलिङ्गयोः दर्शनेनैव हि मनसः सन्तोषः भवति । पुरतः नन्दीश्वरौ विराजेते । विशाले उन्नते सुन्दरे मण्डपे नन्दीश्वरौ स्तः ।
:लोकयानम् -बेलूरुतः २६ कि.मी। मैसूरुतः २५० कि.मी। बेङ्गळूरुतः २१४ कि.मी
अत्र देवालयस्य बहिर्भागे भित्तिषु अनेकस्तराः सन्ति । अष्टपङ्क्तिषु विविधानि शिल्पानि सन्ति । अनेकानि सूक्ष्मसंवेदिचित्राणि अपूर्वाणि शिलासु रूपितानि सन्ति । चित्रपट्टिकासु सिंहपङ्किः गजपङ्क्तिः, लताविन्यासाः, उष्ट्रानां पाड्क्तिः, अश्वानां पाङ्क्तिः , लताः च सन्ति ।
:वसतिः -कर्णाटकसर्वकारवसतिगृहं, होटेलमयूर
अन्यस्मिन् शिलास्तरे रामायण-महाभारत-भागवत- पुराणादीनां कथाचित्रणम् सुन्दरतया उत्कीर्णम् अस्ति । तेषु [[प्रह्लादः]], [[बलिह्]], समुद्रमथनं, शिवपुराणकथाः हंसाः देवालयौ परितः सन्ति । एषा पाङ्क्तिः प्रायः ६१० पादपरिमितदीर्घा अस्ति । द्विसहस्रसङ्ख्याकाः गजाः अतीवसुन्दराः सन्ति ।
देवालययोः पृष्ठभागे १६६ स्त्रीविग्रहाः, १०४ पुरुषविग्रहाः च सन्ति । विविधदेवतानां शिल्पानि अपि अत्र सन्ति । स्त्रीशिल्पेषु वस्त्रालङ्कारः, आभूषणानि, केशालङ्कारः च आधुनिक लक्षणयुक्ताः सन्ति । पुरुषाणां शिल्पेषु रथचक्राणि पादरक्षाविन्यासाः च नवीनतया चित्रिताः सन्ति ।
नन्दीमण्डपे अपि अतीव सुन्दरे स्तः । एकः मण्डपः विशालः अस्ति तत्र दशपादपरिमितोन्नतः नन्दीविग्रहः अस्ति । अन्यस्मिन् मण्डपे त्रयोदशपादपरिमितोन्नतः नन्दिविग्रहः अस्ति । तृतीयः देवालयः केदारेश्वर देवालयः अपि दुस्थितौः अस्ति । तत्र अष्टशतवर्षपूर्वं निर्मितं दोरसमुद्रतटाकं प्रमुखाकर्षकं स्थानमस्ति ।
सर्वम् इदानीम् प्राच्यवस्तुसशोधनविभागस्य वशे अस्ति । [[बेलूरु]]तः समीपे एव एतत् क्षेत्रमस्ति ।
==मार्गः==
===धूमशकटमार्गः===
:मार्गःसमीपे हासन, बाणावर निस्थानके स्तः । -हासनरेलनिस्थानतः २७ कि.मी। बाणावरतः ३२ कि.मी।
===वाहनमार्गः===
[[बेङ्गळूरु]]तः २२४ कि.मी । [[बेलूरु]]तः १० कि.मी.। [[मैसूरु]]तः १५० कि.मी । हासनतः २७ कि.मी । बेलूरनगरे हळेबीडुनगरे च वसतिः कर्तुं शक्यते ।
विविधशिलास्तरेषु गजानां सिंहानां अश्वानाम् उष्ट्राणां, लतानां च शिल्पाणि सन्ति । न केवलं तावत् भागवतकथाः शिवपुराणकथाः मकराणां हंसानां पङ्क्तयः अपि विराजन्ते । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।[[File:Halebid1.jpg|left|thumb|'''शिवपारवतिशिल्पः''']]
==वसतिः==
:वसतिः -कर्णाटकसर्वकारवसतिगृहं, होटेलमयूर
 
[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/हळेबीडु" इत्यस्माद् प्रतिप्राप्तम्