"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
}}
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
पट्टदकल्लु कन्नडशिल्पिनां प्रयोगालयः
[[कर्णाटकम्|कर्णाटके]] प्रशासनम् कृतवत्सु [[बादमी|बादाम्याः]] [[चालुक्याः]] प्रमुखाः आसन्। एते क्रिस्ताब्दस्य ५३५ तः ७५७ वर्षाणि यावत् शासकाः आसन् । एते कला -संस्कृतिरक्षकाः शिल्पकलासक्ताः च । शिल्पानां विषये आसक्तियुक्ताः इति कारणादेव अनेकान् सुन्दरदेवालयान् निर्मितवन्तः । ग्रीक् भूगोळज्ञः टालेमी एतं प्रदेशं ज्ञातवान् आसीत् । सः एतं पर्तुगल् इति उल्लिखितवान् अस्ति । [[चालुक्याः]] एतत् नगरम् किसुवोळल् इति उक्तवन्तः । अत्र पट्टाभिषेकोत्सवम् आचरन्तः आसन् इति कारणात् पट्ट्दकल्लु इति नाम आगतम् अस्ति । विश्वसंस्था अपि [[विश्वपरम्परास्थानानि|विश्वपरम्परास्थानानां]] पट्टिकायाम् एतत् नगरं घोषितवती अस्ति।
[[मलप्रभा]]नद्याः वामनाला प्रदेशे एतत् नगरम् अस्ति । शिल्पकलासम्पद्युक्तं नगरमिदम् । अत्र नवदेवालयाः सन्ति । सर्वे शिवदेवालयाः । गळगनाथ-जङ्गमेश्वर-विरूपाक्ष-मल्लिकार्जुन- त्रिलोकेश्वर-पापनाशदेवालयाः प्रमुखाः सन्ति ।
श्रीविरूपाक्षदेवालयः (लोकेश्वरदेवालयः) बृहदस्ति । क्रिस्ताब्दे ६४० तमे वर्षे निर्मितः । देवालयस्य वास्तुविन्यासः अतीव सुन्दरः अस्ति । पूर्वाभुमुखः देवालयः एषः । महाद्वारं, नन्दिमण्डपः, मुखमण्डपः, विशालसभामण्डपः, प्रदक्षिणपथम्, अन्तरालः, गर्भगृहम् इत्येते भागाः विशिष्टाः सन्ति ।
नन्दिमण्डपे ९ पाददीर्घः, ७ पादविस्तृतः, कृष्णशिलानन्दिविग्रहः अस्ति । सभाभवने १८ स्तम्भाः सन्ति । १८ जालन्ध्राः सन्ति । एतेषु सुन्दरशिल्पानि सन्ति । शिखरम् ५८ पादमितोन्नतम् अतीव सुन्दरं च अस्ति । एतत् [[कञ्ची]]कैलासेश्वरदेवालयस्य साम्यं भजते इति मतम् अस्ति।
हेवेल् नामकः चरित्रकारः पट्टदकल्लु स्थलं दृष्ट्वा”[[चालुक्यविक्रमादित्यः]] [[चोळाः|चोळानां]] [[पल्लवाः|पल्लवानां]] केरलराजानां विषये साधितस्य विजयस्य अपेक्षया विरूपाक्षमन्दिरं निर्माय अपूर्वां कीर्तिं सम्पादितवान्’ इति उक्तवान् अस्ति।
==मार्गः -==
===धूमशकटमार्गः==
गदग-[[बिजापुरम्|बिजापुरमार्गे]] [[बादामी]] निस्थानम् अस्ति । ततः २९ कि.मी ।
===वाहनमार्गः===
[[बेङ्गळूरु]]तः ५०० कि.मी, बिजापुरतः १२० कि.मी।
पट्टदकल्लु उत्सवः प्रतिवर्षं प्रचलति । सङ्गीत-नृत्य-जानपदसङ्गीतानाम् अपूर्वं मेलनं तदा भवति । समीपे बादामी शिलागुहाः पर्वते (२९ कि.मी) सन्ति । बनशङ्करीदेवालयः (२० कि.मी) दूरे अस्ति । महाकूटेश्वरदेवालयः अपि अतीव सुन्दरः [[महाकूटः|महाकूटस्थले]](२० कि.मी) अस्ति । बादामी चालुक्यानां राजधानी आसीत् । बादामीनगरे वसति व्यवस्था अस्ति ।
 
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
 
 
मार्गः -
:बादामीतः २९ कि.मी
 
[[वर्गः:बागलकोटेमण्डलम्]]
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्