"अमृतसर" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६८:
विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । [[पाकिस्तानम्|पाकिस्तानदेशस्य]] सीमायाः समीपे २८ कि.मीटर् दूरे अस्ति । भारतदेशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं रामदासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं, सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति ।
नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं [[रणजितसिङ्गः|रणजितसिङ्गमहोदयः]] कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते ।
देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य ‘[[गुरुग्रन्थसाहेब्|गुरुग्रन्थसाहेबस्य]]’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे [[गुरुनानकः|गुरुनानकस्य]] उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।
==अमृतसरस्य इतरप्रेक्षणीयस्थानानि==
===जलियान्वालाबाग् ===
अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् नामकम् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अहिंसात्मकान्दोलने निरतानाम् उपरि जनरल् डायर् घोरं गोलिकावर्षणं कारितवान् ४७१ जनाः तद्दिने मृताः अभवन् । आङ्गलाधिकारिणाम् एतत् भीकरं कृत्यम् अधुनापि जनाः न विस्मृतवन्तः सन्ति।
इतिहासानुसारम् अस्य उद्यानस्य प्रवेशाय एकम् एव द्वारम् अस्ति । मध्याह्ने ’४.३० वादनसमये अत्र सभा आयोजयिष्यते’ इति पूर्वमेव सूचितमासीत् । किन्तु सभायाः आरम्भानन्तरं डायरमहोदयः सैनिकैः साकमागत्य जनानामुपरि १०० मीटर् दूरतः गोलिकवर्षणस्य आदेशं कृतवान् ।पूर्वं सभायाः निषेधं न कृतवान् ।
सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टाना विरुद्धम् आङ्ग्लसर्वकारस्य पाशवीयकृत्यम् एतत् अविस्मरणीयम् अस्ति ।
इदानीमपि अत्रत्यां वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यतः अत्र वाप्यां अनेकेषां जनानां शरीराणि आसन् । इदानीम् अस्मिन् उद्याने मृतानां संस्मरणार्थ ’अमरज्योतिः’ स्थापिता अस्ति ।
 
अत्र देवालयस्य समीपे सुन्दरम् उद्यानं , रामगुरियास्तम्भाः, वस्तुसङ्ग्रहालयः च दर्शनीयानि सन्ति ।
अमृतसरनगरे एव अन्यत् दुर्गीयानानामकं स्वर्णमन्दिरमित्यस्ति । सिक्खधर्मीयानां मन्दिरसह्रशमेव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् क्रिस्ताब्दे १६ शतके निर्मितमस्ति ।
"https://sa.wikipedia.org/wiki/अमृतसर" इत्यस्माद् प्रतिप्राप्तम्