No edit summary
पङ्क्तिः १:
'''शिवः''(shiva) सनातनधर्मस्य प्रमुखः देवोऽस्ति। स एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती दौ भार्ये। स: भस्मेन अवलिप्तः, नीलकण्ठः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरुत्रिशुलश्च शोभितास्ति। त्रिशूल: त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं पञ्चाननः इति नाम्ना शृणुमः। अपि च तस्य विविधानि रूप‌ाणिरूपाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।शिवं साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। शिवस्य ध्यानमग्नस्तथा ताण्डवनृत्यरता मूर्तिः बहुलप्रचलित:।

==व्युत्पत्तिः==
शिवमिति विशेषणवाचकशब्दस्यार्थं शुभं नाम मङ्गलं(आप्ते, पृ. ९१९., Macdonell, p. 314.) व्यक्तेः नामरूपेणास्यार्थः मङ्गलमयः। रूढः रुद्रशब्दस्य स्थाने अस्य प्रयोगोऽपेक्षाकृत कोमलः। विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीणां अभिधारूपेण व्यवहृतासीत्।(चक्रवर्ति:,पृ: २८) ऋग्वेदे इन्द्रः एकधिकस्थले स्ववर्णनायां अस्य शब्दस्य प्रयोगः कृतः।(२:२०:३, ६:४५:१७, ८:९३:३)

पङ्क्तिः ८:
शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतासीत्।(Flood ,1996, p. 151.) शिवस्य त्र्यम्बकमिति नामस्यापि त्रिनयनसमन्वितमित्येवार्थ:।(चक्रवर्ति:,पृ।-३७-३९)

===अर्धचन्द्रः===
शिव अर्धचन्द्रं शिरसि धरति। अत: तस्यापरनाम "चन्द्रशेखर:" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगत एव अर्धश्चन्द्र: शिवस्य एक: वैशिष्ट:।(चक्रवर्ति:,पृ : ५८) सम्भवत: वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयो: एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्ति: स्यात्।

===विभूति:===
विभूति: वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपा: प्राचीन्भारतीयश्मशानवैराग्यदर्शनैस्साकं युक्तः। रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः अस्य मतानुजायीन:। विभूतिभूषणोऽपि शिवस्यापराख्या।

===जटाजुट:===
शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्त:) इत्यपि उच्यते। (चिद्भवनन्द:,पृ : २२,Macdonell, p. 62.)
===नीलकण्ठः===
समुद्रमन्थनकाले उत्थितं हलाहलविषं पीत्वा शिव: नीलकण्ठ: सञ्जात:।(Flood ,1996, p. 78.,चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणस्य वर्णनानुसारेण विष्णु एकदा शिवस्य कण्ठावरोधं कृतवान्। शिव: पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठ: नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (869)। Genealogy of the South-Indian Gods Germann1। पृ: 151)
===पवित्रगङ्गा===
हिन्दुविश्वासानुसारेण गङ्गाया: उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिव: गङ्गाधर इति ख्यात:।(शिवराममूर्तिः,१९७६ ,पृ: ८)

"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्