"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Gsb.jpg|thumb|'''चतुर्थिपर्वणः मृत्तिकागणपतिः''']]प्रायः समग्रे [[भारतम्|भारतदेशे]] आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । [[शिवः|शिवगणानाम्]] अधिपतिः, विघ्ननिवारकः , आदिपूज्यः च । '''“आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम्”''' इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । “पञ्चायतन”देवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । '''“त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं [[ब्रह्मा]] त्वं [[विष्णुः|विष्णुस्त्वं]] [[रुद्रःशिवः|रुद्र]]स्त्वम्न्द्रस्त्वमग्निस्त्वं [[वायुः|वायुस्त्वं]] [[सूर्यः|सूर्यस्त्वं]] [[चन्द्रः|चन्द्रमा]]स्त्वं ब्रह्म्भूर्भुवस्सुवरोम्”''' इत्याशयं प्रकाशयति [[गाणपत्यथर्वशीर्षमहोपनिषत्]] । [[पुराणम्|पुराणे]][[इतिहासः|तिहासा]][[आगमाःआगमः|गमादिषु]] तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । '''“कलौ दुर्गाविनायकौ”''' इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु [[बर्मा]], [[मलेश्या]], [[इण्डोनेष्याइण्डोनेशिया]], [[चीना]], [[सुमात्रा]], [[जावा]], [[जपान्]] इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
 
 
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्