"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ११७:
'''जम्मू''' [[भारतम्|भारतस्य]] [[जम्मूकाश्मीरम्|जम्मूकाश्‍मीरस्य]] द्वितीय राजधानी अस्‍ति । [[जम्मूकाश्मीरराज्यम्|जम्मूकाश्मीरराज्यस्य]] द्वितीयं महत् पत्तनमेतत् । पर्वतप्रदेशे स्थितम् अतीव सुन्दरं स्थानम् एतत् अस्ति । मार्गे पर्वताः, शिखराणि, प्रपाताः, नद्यः, नालाः च मनमोहकानि सन्ति । हिन्दुजनानां देवालयाः अत्र अधिकसङ्ख्यया सन्ति । श्रेष्ठं प्रवासिस्थानम् एतत् । जम्मूनगरस्य मध्यभागे रघुनाथमन्दिरमस्ति । क्रिस्ताब्दे [[१८३५]] तमे वर्षे निर्मितम् एतत् मन्दिरम् अतीवविशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्ती स्तः । भूमौ लक्षशः सालिग्रामाः सन्ति । राजा [[रणबीरसिङ्गः]] एतत् निर्मितवान् । रणवीरेश्वरमन्दिरे षट्पादमितानि ११ बाणलिङ्गानि, ११ स्फटिकलिङ्गानि च सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे [[१८८३]] तमे वर्षे अस्य निर्माणमभवत् । गान्धिभवने डोग्राकलासङ्ग्रहालयः अस्ति । अत्र सुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्या निर्मितम् अमरमहल् राजगृहं नगरात् बहिः अस्ति । अत्र अपि चित्र सङ्ग्रहालयः अस्ति । जम्मूतः ३५ कि.मी दूरे पर्वतप्रदेशे वैष्णोदेवीदेवालयः अतीवसुन्दरः अस्ति । जनाः अत्र समुद्ररुपेण नामस्मरणं कुर्वन्तः पर्वतारोहणाय सोपानमार्गेन गच्छन्तः भवन्ति । “जय माता की” घोषणा सर्वत्र श्रोतुं शक्या । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः दृश्यवीक्षणम् अतीवानन्दाय भवति ।
जवाहरसुरङ्गमार्गः जम्मुतः २०० कि.मी [[श्रीनगरम्|श्रीनगरतः]] ९३ कि.मी दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणात् गमनकालः ह्रस्वः अभवत् ।
पहलगांव – सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र [[लिडडार्]], तथा [[शेषनाग]] नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः [[अमरनाथः|अमरनाथयात्रार्थं]] एतेन मार्गेण गच्छन्ति । अमरनाथगुहा[[अमरनाथ]]गुहा ४७ कि.मी दूरे अस्ति।
 
===वाहनमार्गः===
पङ्क्तिः १२४:
 
===पहलगांव===
सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र [[लिडडार्]], तथा [[शेषनाग]] नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः [[अमरनाथः|अमरनाथयात्रार्थं]] एतेन मार्गेण गच्छन्ति । अमरनाथगुहा[[अमरनाथ]]गुहा ४७ कि.मी दूरे अस्ति।
 
====वाहनमार्गः====
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्