"दीपावलिः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ४२:
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, [[शिवः|शिवं]], महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
 
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]] [[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
 
[[File:Cows decorated for Diwali.jpg|thumb|'''गोपूजापर्व''']]
 
कार्त्तीकशुद्धप्रतिपत् एव [[बलिः|बलि]]पूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं ५ वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: [[कमलम्|कमल]]पुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।
 
:'''”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।'''
:'''भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“'''
 
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती [[वामनावतारः|वामनावतारिण:]] [[विष्णुः|विष्णो:]] सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति [[भविष्योत्तरपुराणम्]] ।
 
:'''”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।'''
पङ्क्तिः ६३:
एतद्दिने एव श्रीकृष्ण: [[गोवर्धनपर्वतः|गोवर्धनपर्वतम्]] उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।
 
अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
 
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
पङ्क्तिः ७६:
 
{{भारतीयपर्वाणि}}
 
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्