"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्य अपि गौरवः भक्तिः च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकरपदम् अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो अभवत् ।
 
यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य [[मुम्बई|मुम्बयीनगरम्]] आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवसरः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्राय आङ्गलभाषां सम्यक् पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थं दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोषयति स्म ।
 
पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन् सम्माननसमारम्भे केलूस्करामहोदयः भीमाय [[गौतमबुद्धः|"गौतमबुद्धः"]] इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् ।
 
पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तःस्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । एवं सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् ।
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्