No edit summary
पङ्क्तिः ३:
 
==शन्तनुः गङ्गा च==
कदाचित् शन्तनुः गङ्गातीरे भ्रमन् काञ्चित् सुन्दरीम् अपश्यत् । तया आकृष्टः अनुरक्तः च परिणयेच्छां प्रकटितवान् । ससमयं सा विवाहार्थम् अङ्गीकृतवती । तदनुगुणं सा किमपि करोति चेत् अपि तेन प्रश्नः न करणीयः । पृष्टे सति तत्क्षणे एव सा तं त्यक्त्वा गमिष्यति इति । समयम् एतम् अङ्गीकृत्य तां परिणीतवान् । गच्छत्सु कालेषु पुत्रमेकम् असूत । किन्तु शिशुं गङ्गानद्यां प्राक्षिपत् । खिन्नः चेदपि राजा त्यागभयात् किमपि नोक्तवान् । कालक्रमेण सप्तशिशून् अपि गङ्गायां न्यमज्जत् । अष्टमं शिशुं यदा सा गङ्गायां प्रक्षेप्तुं गता तदा कोपम् असहमानः राजा शन्तनुः ताम् अवरुध्य कारणम् अपृच्छत् । तदा सा उक्तवती अहं [[गङ्गा]], शिशुं नीत्वा कालन्तरेण प्रत्यर्पयामि इति । तस्याः निर्गमनेन अपत्यानाशेन च अतीव दुःखितः राजा अन्तिमपुत्रस्य आगमनं निरीक्षमाणः वार्षाणि यापितवान् । दत्तवचनानुगुणं गङ्गा तं पुत्रं प्रर्यर्पितवती । अयं पुत्रः एव देवव्रतः अग्रे [[भीष्मःभीष्‍मः]] इति विश्रुतः [[महाभारतम्|महाभारतस्य]] महाभूमिका ।
 
==शन्तनुः सत्यवती==
"https://sa.wikipedia.org/wiki/शन्तनुः" इत्यस्माद् प्रतिप्राप्तम्