"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
 
==कलावस्तु==
कूडियाट्टं नृत्यकलायां [[संस्कृतभाषायाःसंस्कृतम्|संस्कृततस्य]] [[दाशरूपकाणि|रूपकाणां]] प्रस्तुतिः भवति । किन्तु सम्पूर्णतया कस्यचिदपि रूपकस्य अभिनयः नैव भवति । रुपकस्य कस्यचिदेकस्य अङ्कस्य निरूपणं कूडियाट्टं नृत्येषु सम्भवति । रूपकाङ्कस्य नाम्ना एव नृत्यस्य नाम भवति । अस्यां [[कला|कला]]यां नृत्यस्य विच्छिन्नाभिषेकाङ्कः, मायासीताङ्कः, शूर्पणखाङ्कः इत्यादीनि नामानि भवन्ति । कूडियाट्टं कलायां प्रमुखानां संस्कृतनाटकानां नामानि एवं सन्ति । [[भासमहाकविःभासः|भासस्य]] [[प्रतिमानाटकम्]], [[अभिषेकनाटकम्]], [[स्वप्नवासवदत्तम्|स्वप्नवासदत्तम्]], [[प्रतिज्ञायौगन्धरायणम्]], [[ऊरुभङ्गम्]], [[मध्यमव्यायोगः]], [[दूतवाक्यम्]], इत्यादीनि । [[श्रीहर्षस्यश्रीहर्षः|श्रीहरिषस्य]] [[नागानन्दःनागानन्दम्|नागानन्दं]] [[शक्तिभद्रः|शक्तिभद्रस्य]] [[आश्चर्यचूडामणिः]], [[कुलशेखरः|कुलशेखरस्य]] [[सुभद्राधनञ्जयम्]], [[तपतीसंवरणम्]], [[नीलकण्ठदीक्षितः|नीलकण्ठस्य]] [[कल्याणसौगन्धिकम्]], महेन्द्रविक्रमस्य [[मत्तविलासम्]], [[बोधायनः|बोधायनस्य]] [[भगवदज्जुकीयम्]] इत्यादीनि अपि कूडियाट्टं कालाप्रदर्शनेषु भवन्ति । एकस्य कस्यचित् रूपकस्य कूडियाट्टं कलया प्रदर्शनीयं चेत् अष्टदिनानि अपेक्षितानि भवन्ति । प्राचीनकाले निरन्तरं ४१दिनपर्यन्तं रङ्गमञ्चे अस्याः कलायाः प्रदर्शनं भवति स्म । किन्तु इदानीन्तने काले इयं दीर्घकालप्रदर्शनस्य परम्परा लुप्ता अस्ति ।
 
==प्रदर्शनम्==
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्