"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
|ethnicity = people for whom this is the ethnically native language; also good for the ethnic population if
}}
'''गुजराती'''(ગુજરાતી)(Gujarathi) भाषा भारतस्य[[भारतम्|भारत]]स्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । [[गुजरातराज्यम्|गुजरातराज्यस्य]] राज्यभाषा । भारतदेशस्य विविधेषु भागेषु [[जम्बूद्वीपः|एशिया]]-[[आफ्रिकाखण्डः|आफ्रिकाखण्डेषु]] च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा [[राजस्थानी|राजस्थानी]]भाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । [[महात्मा गान्धिः]], [[सरदार् वल्लभभायी पटेलः]], [[स्वामी दयानन्दसरस्वती]], [[मोरारजी देसायी]], [[जे.आर्.डि.टाटा]], [[धीरूभाई अंबानी]], महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।
[[चित्रम्:Map Gujarat state and districts.png|thumb|right|'''गुजरातराज्यस्य मानचित्रम्'''|275px]]
== इतिहासः ==
वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः[[देवनागरी|देवनागरी]]लिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते [[गुजरातराज्यम्|गुजरात]]-[[राजस्थानम्|राजस्थानराज्ययोः]] अस्याः लिपेः उपयोगः दृश्यते । इयं लिपिः '''महाजनी''' इति कथ्यते । अस्याः वर्णमाला [[संस्कृतम्|संस्कृतजन्या]] विद्यते । अक्षराणाम् आकारः [[देवनागरी|देवनागर्याः\\ सदृश्यतां भजते ।
[[चित्रम्:Tisdall148.PNG|thumb|right|'''१८९२-कालावधौ लिखितस्य पुस्तकस्य कश्चन भागः''']]
गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-[[ईरान|इरानी]]-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।
 
== ध्वनिव्यवस्था ==
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्