"पटना" इत्यस्य संस्करणे भेदः

संयोजयितुं स्थापितम्
पङ्क्तिः १०४:
| footnotes =
}}
'''पटना''' [[बिहार]]राज्यस्‍य राजधानी अस्ति । '''पाटलीपुत्रं''' पुरातन[[भारतम्|भारत]]स्य किञ्चन नगरम् आसीत्। एतत् नगरम् [[अजातशत्रुः|अजातशत्रुणा]] स्थापितम्। तदनन्तरं पाटलीपुत्रं [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ [[गौतमबुद्धः|बौद्ध]]सङ्घौ अत्रैव अभवताम् । महाराजस्य [[अशोकः|अशोक]]स्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः [[मेगास्तनीस्]] अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके [[इस्लाम्-मतम्|मुसल्मान्]] आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तन[[पटना]]नगरस्य अधः सन्ति ।
[[बिहारराज्यम्|बिहारराज्य]]स्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य [[पाटलीपुत्रम्]] इति नाम आसीत् [[गङ्गा]]नद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।
"https://sa.wikipedia.org/wiki/पटना" इत्यस्माद् प्रतिप्राप्तम्