"दधि" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः १:
[[चित्रम्:Cottagecheese200px.jpg|thumb|200px|right]]
[[चित्रम्:Bengali Mishti curd.jpg|thumb|200px|right|बङ्गालस्य मिष्टि-दधि]]
 
एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । [[दुग्धम्|क्षीरेण]] निर्मीयमाणम् एतत् दधि आङ्लभाषायां Curd इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः एव । यद्यपि दधि दुग्धस्य रूपान्तरं तथापि गुणे दधि-दुग्धयोः महान् भेदः अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दधि । [[पायसं|पायसेषु]], [[पञ्चगव्यम्|पञ्चगव्ये]], [[पञ्चामृतम्|पञ्चामृते]] च दधि योजयन्ति । “श्रीखण्ड”नामकं भक्ष्यम् अपि निर्मीयते दध्ना । [[नवरात्रम्|नवरात्रावसरे]] देवतापूजासु [[दध्यन्नम्|दध्यन्नस्य]] एव नैवेद्यं भवति । [[ललितासहस्रनाम|ललितासहस्रनाम्नि]] '''“काकिनीरूपधारिणी माता दध्यन्नम् अपेक्षते”''' इति उक्तम् अस्ति ।
 
"https://sa.wikipedia.org/wiki/दधि" इत्यस्माद् प्रतिप्राप्तम्