वीरेन्द्रकुमारभट्टाचार्यः

वीरेन्द्रकुमारभट्टाचार्यः बङ्गप्रदेशे १६१७ ई० वर्षे जनिमलभत । कोलकाताविश्वविद्यालयात् उच्चशिक्षां प्राप्यायं १९४२ ई० वर्षात् प्रारभ्य १९४६ ई० वर्षं यावत् महाविद्यालये दर्शनशास्त्रस्य प्राध्यापकपदमलञ्चकार । अनन्तरं आसेवानिवृत्तेः केन्द्रीयशासनस्य विभिन्नमहत्त्वपूर्णेषु प्रशासनपदेषु नियुक्तिं भजते स्म ।

वीरेन्द्रकुमारभट्टाचार्यः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः कालिदासचरितम्, गीतगौराङ्गम्, सिद्धार्थचरितम्, शूर्पणखाभिसारः, वेष्टनव्यायोगः, शरणार्थिसंवादः

दर्शन-काव्ययोरस्य लेखन-व्यापारः आङ्ग्ल-बंगला-संस्कृतभाषासु समं प्रवर्तते । शासकीयतन्त्रयन्त्रणायामस्य काव्यप्रतिभा न चूर्णिता । वीरेन्द्रेण बहूनि रूपकाणि नूतनं नाट्यविधानं समाश्रित्य विरचितानि ।

कालिदासचरितम् सम्पादयतु

कालिदासचरितमिति नाटकं १९६८ ई० वर्षे निष्पन्नम् । अत्र कालिदासीयप्रतिभाविलासः कल्पनाद्वारेण समाकलितः । निखिलभारतप्राच्यविद्यासम्मेलनस्य रजतजयन्त्युत्सवे नाटकमिदम् अभिनीतम्। प्रथमाङ्के वररुचि-कालिदासौ परस्परं स्वकीयां योग्यतां परीक्षेते ।

द्वितीयांके उभौ काव्यकौशलेन विक्रमादित्यसदसि स्थानं प्रापतुः । कालिदासो विक्रमकन्याया मञ्जुभाषिण्या विषये काव्यं रचितवान् । तृतीयाङ्के तस्याः कालिदासायानुरागो वर्णितः । कालिदासस्तां काव्यकलां शिक्षयति । विक्रमादित्यस्तां वन्दिनीं विधाय कालिदासं निरवासयत् । चतुर्थाङ्के रामगिरौ स्थितः कविः वररुच्यनुरोधेन मेघदूतमरचयन् । पंचमाङ्के विक्रमः तस्य मञ्जुभाषिण्या विवाहो भवेदिति स्वीकृतवान् ।

रूपकेऽस्मिन् नूतनच्छन्दसां प्रयोगः कृतः । कालिदासीयकाव्येभ्यः २५ पद्यान्यप्युद्धृतानि।

गीतगौराङ्गम् सम्पादयतु

गीतगौराङ्गं नाम गेयरूपकं वीरेन्द्रेण १९७४ ई० वर्षे विरचितम् । अस्मिन् रूपके ८१ गीतानि षड्रागेषु ७५ रागिणीषु च समाविष्टानि। चैतन्यस्य चरित्रं पूर्वग्रन्थेभ्यः परिशोध्य समुपस्थापितम् । अत्र पञ्च अङ्काः सन्ति । अङ्का दृश्येषु विभक्ताः । सम्पूर्णेऽपि नाटके त्रिंशत् दृश्यानि सन्ति । संवादाः पद्यात्मका एव व्यवहृताः । एकोक्तीनां चात्र बाहुल्यं वर्तते । प्रायशः सर्वाण्यपि गीतानि एकोक्तिरूपेण निबद्धानि । वीरेन्द्रस्य भाषा नितरां सरला कोमलस्वरलहरीविशिष्टा चास्ति । सर्वत्र प्रसादगुणो वैदर्भीरीतिश्च शोभेते । कथावस्तुनः रूपेण कविकर्णपूरकृतचैतन्यचन्द्रोदयस्य प्रभावः प्रत्यक्षमेव वर्तते । कविहृदयं भावानां विश्वात्मकानुबन्धान् प्रत्याययति । यथा गौराङ्गप्रव्रज्यावसरे वर्ण्यते -

कानने लतासु पुष्पाणि न मोदन्ते

मन्थरपवनो गायति करुणसंगीतम्।

शष्पाणि गतासुकल्पानि म्लायन्ते

पार्थिवरुदितं नु वियति किं प्रतिध्वनितम्।।

कविना मानवचरित्रनिर्माणयोजना सम्यक् प्रकाशिता । यथा -

तृणादपि सुनीचेन तरोरपि सहिष्णुना।

अमानिना मानदेन कीर्तनीयः सदाहरिः।।

सिद्धार्थचरितम् सम्पादयतु

वीरेन्द्रेण १९६७ ई० वर्षादारभ्य १९६९ ई० वर्षपर्यन्तं षट् पुस्तकानि रचितानि । तेषु सिद्धार्थचरितं पञ्चमम् । वीरेन्द्रेण महात्मा गौतमबुद्धो महत्तमो दार्शनिक इति विज्ञप्तम् ।

स सदाशयस्य सहानुभूतेश्च सर्वश्रेष्ठः प्रभवः । सोद्देश्यमिदं रूपकं तुरीयजीवनदर्शनं निरूपयति । समसामयिकस्थितिषु अस्य । नाटकस्य वस्तु प्रेरणास्पदमास्ते । बुद्धदेवस्य सुधावर्षिणी वाणी सन्दिशति -

पिता भिक्षुस्तथा पुत्रो भिक्षुणी तस्य जन्मदा।

भिक्षोर्हि गौतमस्याद्य भिक्षवः सर्वबान्धवा।।

अस्य गीतानि विचित्रलयतानोचितानि नृत्योपयोगीनि च सन्ति । एकोक्तीनामत्र बाहुल्यं विलसति।

शूर्पणखाभिसारः सम्पादयतु

गीतगौराङ्ग इव शूर्पणखाभिसारेऽपि आद्यन्तं गेयपदानि प्रयुक्तानि । सूत्रधारेण नवीनरूपकाणां नूतनमाकर्षणं प्ररोचितम् । तथाहि -

'नवीनमाहो रसिकाय रोचते न हर्षदं स्यात् सततं सनातनम्।'

अस्मिन् रूपके शूर्पणखा रामसमक्षं गायति -

सौरवंशदीपं दुर्जनप्रतीपं श्रीरामं रम्यतनु भूपगौरवम्।

नौमि मर्मतोषं रिक्तसर्वदोषं वन्दे त्वां कल्पतरुं प्रेमसौरभम्।।

लक्ष्मणस्तस्याः सौन्दर्येण मुग्धः तां परिणीतवान् । प्रेमोन्मादेन अगायञ्च -

झटिति किमपि किरति सुहसमतनुर्लसति मुखमपि तव सखि सह मया।

नयनविशिखमिह न कुरु विषयुतं तव चरणयुगमयि मम हि शरणम्।।

तं च तत्पादानतं रामो निवारयति -

धर्मपत्नी तव श्रीमन् सरयूतीरवासिनी।

उर्मिलामेकवेणीं तां कथं त्वं विस्मरिष्यसि।।

रामप्रेरणया लक्ष्मणो शूर्पणखां विरूपितवान् । अत्र लक्ष्मणचरित्रस्य अवनमनम् अनुचितम् । कविः परम्परानिगडित इव आचरति विशेषतः शूर्पणखायाः कुचकलशादि उत्थापनायाम् । अन्योक्तीनां प्रभविष्णुत्वमत्र समुल्लेखार्हम्।

शार्दूलशकटम्

'नवीनैः काम्येते नवयुगकथा नूतनं दृश्यकाव्यमि'ति सूत्रधारोपस्थापनया रूपकमिदं प्रवर्तते । अस्मिन् रूपके प्रवहणसंस्थायाः कर्मकराणां जीवनयात्रा वर्णिता । रचनाकाले लेखकः राष्ट्रिय-परिवहन-संस्थाया सर्वाध्यक्ष आसीत् । पात्रेषु तस्य अन्तर्दृष्टिः स्फुटति । अत्र सूत्रधारस्य मन्तव्यमस्ति -

संघो जिष्णुर्भवति नितान्तं नान्यः पन्थाः कलियुगसंख्ये॥

दिवाकरः शोषणस्य निवारणाय श्रमिकान् आह्वयति । तेषां कार्यरोधेन संचालकाः व्यग्राः भवन्ति । धनञ्जयो नाम श्रमिकस्तेषामग्रे घोषयति -

श्रमिका नः पितरः पितामहास्तथा

भुवनस्य श्रमिका भवन्ति बन्धवः।

ह्रियते येन धनं द्विषामस्मदीयं

प्रतिशोधं लभतां स एव जाल्मकः।।

सर्वाध्यक्षः राष्ट्रहिताय कार्यरोधं त्यक्तुं तान् सन्दिशति । तेन च वाहनानां गतिः पुनरारब्धा । निर्वहणे 'परस्पर विश्वास एवं संस्थायाः श्रेष्ठवित्तमि'ति मन्तव्यं प्रकटीकृतम्। नाटकमिदं पूर्णतः नवयुगीनम् । अत्र नवीनान्युपकरणानि नूतनसंविधानानि च प्रयुक्तानि।

वेष्टनव्यायोगः सम्पादयतु

श्रमिकाणामाधुनिकशस्रं वेष्टनं (घेराव) विषयीकृत्य रूपकमिदं प्रवर्तते । प्रवेशके वेष्टनस्य उपयोगिता प्रतिपादिता। पञ्च श्रमिकाः शिल्पाधिकारिणं बन्दीकृत्य स्वाधिकारं स्थापयितुं यतन्ते । शिल्पाध्यक्षस्तु - ‘शिक्षिता अपि कर्महीनाः सन्ति बहवो युवान इदानीम्। परन्तु नियोगरता वेतनवृद्धये सततं घटयन्ति कर्मव्याघातम्' इति मन्तव्यमुपस्थापयति ।

श्रमिकाः शिल्पाध्यक्ष-श्रमाध्यक्षौ वेष्टयन्ति । शिल्याध्यक्षः शिल्पस्वामिनं प्रति पत्रं प्रहिणोति । निर्वहणे नेता कल्किराविर्भवति । सर्वे तमभिनन्दन्ति ।

शरणार्थिसंवादः सम्पादयतु

शरणार्थिसंवादे बांगलादेशवासिनः प्रति पाकदेशीयानामत्याचाराः निरूपिताः । भारतदेशो बांगलानिवासिनां शरणं भूत्वा तान् रक्षति । अत्र शरणार्थिनां त्रासः, शंका, हर्षः आक्रमणकारिणां च क्रूरता द्वेषश्च यथायथं व्यञ्जिताः ।

विशेषम् सम्पादयतु

वीरेन्द्रस्य अधोलिखितानि रूपकाणि अप्रकाशितानि सन्ति -

(१) मार्जनाचातुर्यम् - अलीबावाकथामाश्रित्य रचितम्।

(२) चार्वाकताण्डवम् - दार्शनिकरूपकम्।

(३) सुप्रभास्वयंवरः - सुप्रभाष्टावक्रयोः प्रणयगाथामाश्रित्य रचितम्।

(४) मेघदौत्यम् - मेघदूतमाश्रित्य रचितम्।

(५) लक्षणव्यायोगः - नक्सलवाद्यान्दोलनविषयकः।

सम्बद्धाः लेखाः सम्पादयतु

नाट्यशास्त्रम्

कालिदासः

कल्क्यवतारः

संस्कृतम्

उद्धरणम् सम्पादयतु