लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य पुत्रः । लक्ष्मणः श्रीरामचन्द्रस्य अनुजः । अस्य पत्नी ऊर्मिलासुमित्रायाः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।

लक्ष्मणः
Rama in forest.jpg
रामसीतयोः पृष्ठे धनुर्धारी लक्ष्मणः
व्यक्तिगतविवरणम्
सहचारी ऊर्मिला
अपत्यानि अङ्गदः
चन्द्रकेतुः
पितरौ
सहोदराः रामः, शत्रुघ्नः, भरतः,
शान्ता
लक्ष्मणः

मखसंरक्षणम्संपादित करें

विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् । असुरशक्तीनां नाशनञ्च कृतवान् ।

नासाच्छेदःसंपादित करें

यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती । रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् । लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् ।

मेघनादस्य वधःसंपादित करें

रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् । मेघनादः मारणाध्वरदीक्षित आसीत् । येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् । तदा लक्ष्मण एव मेघनादं मारितवान् ।

सीतामातरि लक्ष्मणस्य भक्तिःसंपादित करें

लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म । यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् । तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती । तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् । तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती । तदा च लक्ष्मणः बहु खेदमनुभूतवान् । सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् । तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं रामायणे समुपलभ्यते |


"https://sa.wikipedia.org/w/index.php?title=लक्ष्मणः&oldid=425677" इत्यस्माद् प्रतिप्राप्तम्