वेतालपञ्चविंशतिका
वेतालपञ्चविशतिकायां नृपतिविक्रमसेनं प्रति वेतालेन कथिताः पञ्चविंशति कथा निबध्दाः । क्वचित् क्वचित् नवीनेषु पुस्तकेषु विक्रमसेनस्थाने विक्रमादित्य इति नाम दृश्यते । सम्भाव्यते प्रागयं स्वतन्त्रो ग्रन्थः, सम्प्रति तु बृहत्कथाकथासरित्सागरयोरङ्गभूतैवेयं प्राप्यते वेतालपञ्चविशतिका । द्वादशे ततः पश्चात्कालिके वा शतके जातेन केनचित् शिवदासेनेयं लिखितेति प्रवादः । इयमेका गद्यपदयमयी, अपरा च गद्यमयीति रुपद्वयमस्या उपलभ्यते । आधिनिकीषु सर्वास्वपि भारतीयभाषासु अस्या अनुवादो जात इति लोकप्रियत्वमस्याः साधितं भवति ।
वेतालपञ्चविंशतिका |
---|
वेतालपन्चविशतिका | |
---|---|
विक्रम वेताल |
केनचिद्योगिना उपकृतः कोऽपि नृपस्तस्योपकारं चिकीर्षति । योगी नृपं तरुविशेषशाखावलम्बिनं मृतकदेहमानेतुमादिशति । राजनि तद्देहसमीपं गत्वा तमानेतुमुद्युञ्जाने सति तददेहाविष्टो वेतालो नृपमाह – ‘ यदि त्वं मूक एव मां नेष्यसि तदाहं त्वया नेतुं शक्यः, अन्यथा नेति ’ । नृपे तथेत्युक्त्वा त नयमाने वेतालस्तं पथि जटिलां कथां श्रावयित्वा तदुत्तरं पृच्छति, नृपो यथार्थमुत्तरं वदति, वेतालस्तमेव वृक्षमालम्बते यत्रासौ पूर्व स्थितः, पुना राजा तमुपसर्पति तथैव वितालो वदति, राजा पुनस्तं निनीषति, मध्येमार्गं पुनरपि वेतालो राजानं जटिलप्रश्नस्योत्तरं पृच्छति, राजनि च यथार्थमुत्तरं वदति पुनस्तत्रैवालम्बितो वेतालः इत्येवं क्रमेण सर्वाः कथाः श्राव्यन्ते । पञ्चविंशकथाया अवसाने नृपं मूकमवलोक्य वेतालोऽभिहितवान् यदयं योगी कपटोपायेन त्वां जिघांसति । तथा कथयित्वा ततो रक्षाया उपायमपि कथितवान् इदमेव तत्त्वमत्र वेतालपञ्चविंशतिकायाम् ।
शिवदासकृतोऽयं ग्रन्थः सरलया सुन्दर्या च शैल्या निबध्दः एकमेव निदर्शनं शैलीमाधुर्यप्रदर्शनाय क्षमेत् –
- स धूर्जटिजटाजूटो जायतां विजयाय वाः ।
- यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी ॥