विखरः, शरीरं, तत्र भवा तत्पर्यन्तचेष्टासंपादिकेति वैखरी इति अभिनवगुप्तेनोक्तमस्ति । वक्तृभिः विशिष्टायां खरावस्थायां स्पष्टरुपायां भव वैखरीति वादिदेवसूरिणा वर्णितम् ।

क्रिया शक्ति
क्रिया शक्ति
क्रिया शक्ति
वैखरी
वैखरी
वैखरी
ध्यानम्
ध्यानम्
ध्यानम्

विखरः इति देहेन्द्रियसंधातः उच्यते, तत्र भवा वैखरीति जयन्तभट्टेन प्रतिपादितम् । विशिष्टं खमाकाशं मुखरुपं राति गृहणाति इति विखरः प्राणवायुसंचारविशिष्टः वर्णोच्चारः तेनाभिव्यक्ता विखरीति जयरथेन लिखितम् । विशेषेण खरत्वात् वैखरीति पद्मपादाचार्येण उक्तम् । वै निश्चयेन स्पष्टतरत्वात् खं कर्णविवरवर्त्तिनभोरुपश्रोत्रेन्द्रियं राति गच्छति, तज्जन्यज्ञानविषयो भवतीति व्युत्पत्त्या वैखरीशब्दस्य निर्वचनं कृतं भास्कररायमखिना ।

खं छिद्रविशेषावच्छिन्नमाकाशम्, तदस्यास्तीति खरः कण्ठः, विबृतः खरो विखरस्तत्र वैखरीति रामप्रसादत्रिपाठिना प्रतिपादितम् । परैः संवेद्यं यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरुपं सा वैखरी । शिलष्टा व्यक्तवर्णसमुच्चारणा प्रसिध्दसाधुभावा भ्रष्टस्ंस्कारा च । तथा याऽक्षे, या दुन्दुभौ, या वेणौ, वीणायामित्यपरिमाणभेदेति हरिवृषभेण प्रतिपादितम् । वैखरी कारणव्यापारानुग्रहा श्रोत्रज्ञानविषया शब्दबुध्दिरिति महाभाष्यव्याख्याया लिखितमस्ति । विराडरुपिणी बीजात्मिका हृदयादास्यान्तम् अभिव्यज्यमाना शब्दसामान्यात्मिका वैखरीति पद्मपादाचार्येण् उक्तम् ।सैव चस्यपर्यन्तं गच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्य तत्तत् स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्रहणयोग्या विराडधिदैवत्य वैखरीवागिति नागेशेन प्रतिपादितम् । त्रिविधं तावत् शब्दस्य स्वरुपम् । यथा- करणस्थम्, प्राणस्थम्, बुध्दिस्थं च । तत्र करणस्थं शब्दस्वरुपं वैखरी ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वैखरी&oldid=409727" इत्यस्माद् प्रतिप्राप्तम्