वैराग्यम् (योगदर्शनम्)

योगदर्शनानुसारम् अत्र वैराग्यं विवृतं वर्तते ।

अस्य निर्वचनाय पतञ्जलिः सूत्र लिखति- "दृष्टानुश्रविक विषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्" (यो० सू० १-१५) इति । संसारेऽस्मिन् भोगार्थत्वेन ये पदार्थाः सन्ति ते दृष्टविषयाः इत्युच्यन्ते । गुरुमुखेन श्रुतः वेदः अनुश्रवः, वेदेन प्रतिपादितं यत् पारलौकिकं वशीकारसंज्ञा एव वैराग्यमित्युच्यते । एते सर्वे विषयाः मद्वसंगताः, अहमेवेषां वशे नास्मि इत्येवप्रकारः विचारः एव वशीकारात्मकः भवति । एवमभ्यासवैराग्याभ्यां चित्तस्य निरोधः जायते इति विदितविचारः । एवमस्मिन् योगशास्त्रे महर्षिणा पतञ्जलिना-क्रियायोग विचारः, अष्टाङ्गयोगविचारः, सिद्धिचतुष्टयं, प्रकृतेः कैवल्यमित्यादयः विषयाः प्रतिपादिताः विस्तरभिया तेऽत्र न प्रस्तूयन्ते । यतः क्रियायोगादयः आसनाद्यनुष्ठानानां कृते अपेक्षिताः इति कृत्वा, एतावता योगशास्त्रज्ञानसम्पादनं भविष्यति इति विचिन्त्य उत्तरग्रन्थः च प्रस्तुतः ।

सम्बद्धाः लेखाः

सम्पादयतु