वैराग्यशतकम्

(वैराग्यशतक इत्यस्मात् पुनर्निर्दिष्टम्)


अस्मिन् शतके आशापाशविमुखता, उच्चनीचतारतम्यनिरसनम्, लाभालाभनिवृत्तिः, मनोस्थैर्यम्, ईश्वरसेवा, अवधूतचर्या, मोक्षमार्गादिषु विषयेषु बोधनं लभ्यते ।

विषयविवरणम् सम्पादयतु

  1. तृष्णादूषणम्
  2. विषयपरित्याग-विडम्बना
  3. याज्ञा-दैन्यदूषणम्
  4. भोगास्थैर्यवर्णनम्
  5. कालमहिमा
  6. यति-नृपति-सम्भाषणम्
  7. मनःसम्बोधन-नियमनम्
  8. नित्यानित्यविचारः
  9. शिवार्चनम्
  10. अवधूतचर्या

केचन श्लोकाः सम्पादयतु

भोगा न भुक्ता वयमेव भुक्ताः
तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याताः
तृष्णा न जीर्णा वयमेव जीर्णाः ॥
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रनयिनो विभवैस्ततः किं
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ?॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वैराग्यशतकम्&oldid=455879" इत्यस्माद् प्रतिप्राप्तम्