वैष्णवसम्प्रदायः

(वैष्णव इत्यस्मात् पुनर्निर्दिष्टम्)


विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते

तस्माद् यज्ञात् सर्वहुतः ऋच: सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥

इति सर्वादौ वेदानामाविर्भावमुद्घोष्य तदनन्तरमेव अश्व-गो-मेध-याग-ब्राह्मणादिवर्णा सञ्जाता इति प्रत्यपादि । श्रुतय एव सर्वं ज्ञानविज्ञानानां मूलमिति मन्यन्ते भारतीया: । सर्वं वेदात् प्रसिद्ध्यति इत्यभियुक्त्योक्तिरेतदेव कथयति । विशेषत: खलु यज्ञार्थमेव वेदानामवतार:। यज्ञश्च नाम परमात्मन उपासना । परमात्मनो ज्ञानमेव परमश्रेयसो मोक्षाख्यस्य सम्पादकमिति “तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय” इति श्रुति: प्रतिपादयति । सर्वव्यापक: परमात्मैव भगवान् विष्णु: । “तत्सृष्ट्वा तदेवानुप्राविशत्” इति श्रुत्या विष्णुपदार्थो विज्ञायते । विशतीति विष्णुरिति व्यापक इत्यर्थ: ।

विष्णोः देवत्वम् सम्पादयतु

श्रीभगवान् विष्णुः स्वभक्तपरित्राणाय दुष्टविदलनाय च तदा तदावतारान् जग्राहेति प्रतिपाद्यते पुराणेषु । तस्य मूलं वेदेषु सम्प्राप्यते । श्रीविष्णो: स्वरूपं सामर्थ्यं सर्वव्यापकत्वमपि पुराणादिषु प्रतिपाद्यते । तदपि वेदेष्वेव प्रथमं संदृश्यते । तथाहि ऋक्संहितायां विष्णुसूक्तेषु विष्णो: परमात्मस्वरूपत्वम् : “विष्णो देवत्वं परमस्य वित्से” । “न ते विष्णो जायमानो न जातो देव महिम्न: परमन्तमाप”। अत्र हि विष्णु: पर्मात्मा अगम्यमहिमा इति निरूपितम् । विष्णो: सर्वव्यापकत्वम् : नारायणोपनिषदि “यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित:” ।

विष्णो: सर्वशक्तिमत्वम् : ऋग्वेदे पवमानमण्डले स्पष्टतया उक्तमस्ति ।
अत्रहि विष्णु विश्वप्रकाशकस्य - सूर्यस्यापि प्रकाशक इत्युक्तम् ॥

विष्णोर्महान्ति कर्माणि : विष्णुसूक्तेषु “उरुक्षितिं सुजनिमाचकार” इत्येतस्मिन् वाक्ये पृथिव्या: समृद्धये अयमवततार परमात्मा इति सूच्यते । पावमानमण्डले च स्पष्टमेव श्रूयते “हरि: सन्योनिमासदत्” । हरिर्विष्णुर्जन्म लब्धवानित्यर्थ: । आर्चिकेषु विष्णुसूक्तेषु च विष्णोर्वामनावतारवर्णनं सुस्पष्टतया व्यज्यते । वामनरूपिणो विष्णोर्यज्ञे गमनम् :- “बृहच्छरीरो विमिमान ऋक्वभिर्युवा कुमार: प्रत्येत्याहवम्” । अत्र युवा कुमार: आहवं नामयज्ज्ं प्रत्येति गच्छतीति वामनवटोर्यज्ञे गमनं व्यज्यते । त्रिभि: पदक्रमैर्विश्वस्याक्रमणम् :- “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” ।“त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्य:” । “विचक्रमाणस्त्रेधोरुगाय:” । “यस्योरुषु त्रिषु विक्रमाणेष्वधिक्षियन्ति भुवनानि विश्वा” । इत्यादिभिश्च वाक्यै: पौराणिकै: प्रतिपाद्यमानो वामनरूपिणो विष्णोर्विक्रम: सूच्यते । अन्यतापि “त्रिर्देव: पृथिवीमेष एतां विचक्रमे” (ऋक्) इत्यभ्यधायि । अयं च परमात्मा जगत्राणार्थमेव अवतारादिकं धारयति । तथाहि

विष्णुसूक्तेषु सम्पादयतु

“तत्तदिदस्य पौस्यं गृणीमसीनस्य त्रातुरवृकस्य मीढुष:” । इत्यत्र वज्रेण युध्यमनस्य (सीमस्य=) अन्नस्य संरक्षितु: अयं बलविभवोऽस्माभि: स्तूयते (तत् तद् अस्य विष्णो: पौंस्यं=बलं गृणीम=गिरा वर्णयाम:) इति प्रत्यपादि । तथा चैतावान् विष्णु: संसेव्य एवेत्याह भगवान् वेद: “महे शूराय विष्णवे चार्चत” (विष्णुसूक्तम्) । अथ ते विष्णो विदुषाचिदर्घ्य: स्तोमो यज्ञश्च राध्यो हविष्मता” (वि.सू) इत्यादिभिर्विष्णुप्रीतये यज्ञः कर्तव्य इति ज्ञायते । एवं च सुकृतकारिणे विष्णुरधिकं श्रेय: प्रत्यर्पयतीति प्रतिपादयतीयं श्रुति: - विष्णुसूक्तेषु - “इन्द्राय विष्णु: सुकृते सुकृत्तर:” इति । एतादृश: परमात्मा विष्णुर्विश्वस्य धारक इति “एको दधार पृथिवीमुत द्याम्” इति श्रुतिवाक्येन विज्ञायते । विष्णो: स्तुतिकर्तारो भक्ता: शाश्वतपदं प्राप्नुवन्तीति “ध्रुवासोऽस्य कीरयो जनास:” (अस्य विष्णो: कीरय:=स्तोतार: जनास:=जना: ध्रुवास:=ध्रुवा: शाश्वता: भवन्तीति शेष:) इत्यनेन सूच्यते । एवं च महान्तमेनं विष्णुं स्तौति भगवती श्रुति: । “किमिते विष्णो परिचक्ष्यं भूत्प्रद्वक्षे शिपिविष्टो अस्मि” = हे विष्णो इत: परं किं वक्तव्यम्? साक्षात् त्वमेव अहमस्मि । अर्थात् त्वयि मम वयो भवत्विति । विष्णोरितरे श्रीनृसिंहादयोऽवतारा: पुराणेषु यथा वर्णितास्तथा तत्तुदुपनिषत्स्वपि वर्णिता: ।

उपसंहारः सम्पादयतु

यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । श्रीमद्भागवते पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य श्रीकृष्णस्य च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने मनुष्यान् यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥

  • सौजन्यम् – जाह्नवी विद्युन्मानपत्रिका

बाह्यसम्पर्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वैष्णवसम्प्रदायः&oldid=481802" इत्यस्माद् प्रतिप्राप्तम्