भर्तृहरिः (Bharthruhari) संस्कृतभाषायाः परम: विद्वान् कविश्चासीत् । अर्वाचीनकोशे एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन गन्धर्वः । तस्य चत्वारः पुत्राः - भर्तृहरिः, विक्रमादित्यः, सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकमात्रपुत्री सुशीला एव भर्तृहरेः माता । अधिपस्य पुत्रसन्ततिः न आसीत् इत्यतः भर्तृहरेः कृते राज्यम् अयच्छत् । अयम् उज्जयिनीं राजधानीं कृत्वा राज्यशासनम् अकरोत् । ततः विक्रमादित्याय राज्यं दत्त्वा सुभटं सेनाधिकारिपदे नियोज्य निर्गतः इति ।
केषुचित् मराठिग्रन्थेषु भर्तृहरेः पिता गन्धर्वसेनः । तस्य चतस्रः पत्न्यः । गन्धर्वसेनस्य प्रथमः पुत्रः भर्तृहरिः ।

कालविचारः

सम्पादयतु

केचन कथयन्ति यत् भर्तृहरिः सप्तमशतमानस्य पूर्वार्धे आसीत् इति । किन्तु क्रि.श .६५१ तमे वर्षे दिवङ्गतं वाक्यपदीयकारं भर्तृहरिमेव शतकत्रयकारः भर्तृहरिः इति परिगणयद्भिः एवम् उक्तं स्यात् इति भाति । आचार्य दण्डिः क्रि श ९ शतमाने आसीत् । अलङ्कारशास्त्रज्ञः भामहः दण्डेः अपि पूर्वः । भामहात् भर्तृहरिः प्राचीनः यदि स्यात् भामहः स्वस्य अलङ्कारशास्त्रग्रन्थे उदाहरणरूपेण वा भर्तृहरेः श्लोकान् अलेखिष्यत् ।
विष्णुशर्मकृते पञ्चतन्त्रे भर्तृहरेः श्लोकाः उदाहृताः सन्ति । पर्षियादेशस्य शासकस्य राजा खस्त्रु अनुशरिवान् (क्रि श ५३१-७९) इत्येतस्य अनुज्ञानुगुणं पञ्चतन्त्रग्रन्थः पेह्लविभाषया अनूदिता अस्ति । अतः पञ्चतन्त्रस्य कालः क्रि श ५३१ तः बहु पूर्वमिति भासते । एतैः आधारैः भर्तृहरिः पञ्चमशतमानस्य मध्यभागे उत्तरभागे वा आसीत् इति भासते ।

शतकत्रयं किम् एतेनैव रचितम् ?

सम्पादयतु

अनेन कविना नीतिशतकम्, शृङ्गारशतकम्, वैराग्यशतकम् च इति शतकत्रयं रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते -

  1. श्रीमद्भर्तृहरिकृतं नीतिशतकं प्रारभ्यते ।
  2. इह खलु राजर्षिप्रवरः भर्तृहरिः........... शतक त्रयात्मकं ग्रन्थं चिकीर्षति ।
  3. अथ भर्तृहरिभूपतिकृतवैराग्य-शतक-प्रारम्भः ।
  4. इति श्रीमहामुनीन्द्रभर्तृहरिकृतौ........ ।
  5. इति श्रीमहाकविचक्रचूडामणिना भर्तृहरिणा विरचितं...........।

शतकत्रयस्य परिचयः

सम्पादयतु

अस्मिन् शतके स्त्रीसौन्दर्यम्, प्रणयलीला, पुरुषहृदयवशीकरणम्, अनुभवदिविषये लिखितवान् अस्ति । इदं सः स्वस्य यौवने लिखितवान् स्यात् ।

अस्मिन् शतके विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यादिविषयेषु लिखितवान् अस्ति । इदं स्वस्य वानप्रस्थदशायां लिखितवान् स्यात् ।

अस्मिन् शतके आशापाशविमुखता, उच्चनीचतारतम्यनिरसनम्, लाभालाभनिवृत्तिः, मनोस्थैर्यम्, ईश्वरसेवा, अवधूतचर्या, मोक्षमार्गादिषु विषयेषु बोधनं लभ्यते । इदं सः स्वस्य वृद्धाप्ये लिखितवान् स्यात् इति भाति ।

काव्यशैली

सम्पादयतु

अत्रत्या शैली सुलभा, मञ्जुला, अर्थगौरवयुक्ता, आकर्षिका च वर्तते । संस्कृतस्य सामान्यज्ञानवन्तः अपि इदं पठित्वा अवगन्तुं शक्नुवन्ति । अत्र उपयुक्तं वृत्तं सुलभं लघु च विद्यते । अत्रत्याः उपमानोपमेयादयः स्वाभाविकाः इत्यतः पठितृषु नूतनभावोत्पादकाः सन्ति ।

कानिचन उदाहरणानि

सम्पादयतु
श्रोत्रं श्रुतैनैव न तु कुण्डलेन
दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां
परोपकारैर्न तु चन्दनेन ॥१॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्तिः ॥ २ ॥
सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम्।
आपत्सु च महाशैलशिलासङ्घात् कर्कशम् ॥३॥
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः ॥४॥
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः।
क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ५ ॥
एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
क्रियते भास्करेणैव सारस्फुरित तेजसा ॥६

"https://sa.wikipedia.org/w/index.php?title=भर्तृहरिः&oldid=455370" इत्यस्माद् प्रतिप्राप्तम्