व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।

व्यायामः

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥[१]

भ्रमण-धावन-क्रीडनादिभिः शरीरं Archived २०१९-०२-०८ at the Wayback Machine श्रान्तकरणं व्यायामः कथ्यते । व्यायामः नित्यं करणीयः भवति । अस्य नित्यानुष्ठानेन गात्राणि पुष्टानि भवन्ति । शरीरे रक्तसञ्चारः द्रुतः भवति । प्रस्वेदैः शरीरात् आमयः, विषं च निर्गच्छति । अनेन पावनकर्म अपि सम्यक् भवति । व्यवहितः व्यायामः यथैव अस्वास्थ्यप्रदः भवति, तथैव अव्यवहितः व्यायामः स्वास्थ्यकरः भवति । स्वस्थे शरीरे एव स्वस्थं मस्तिकं भवति । स्वस्थः जनः सुयोग्यः नागरिकः भवति । देशसेवां स्वस्थाः एव नागरिकाः कुर्वन्ति । न चास्ति सदृशं तेन किंचित्स्थौल्यापकर्षणम् । आरोग्यं चापि परमं व्यायामादुपजायते । शरीर- माद्यं खलु धर्मसाधनम्।


सम्बद्धाः लेखाः सम्पादयतु

  1. "संग्रह प्रतिलिपि". Archived from the original on 2018-03-09. आह्रियत 2018-03-04. 
"https://sa.wikipedia.org/w/index.php?title=व्यायामः&oldid=482573" इत्यस्माद् प्रतिप्राप्तम्