करणविधानम् सम्पादयतु

वामहस्तस्य अङ्गुष्टं दक्षिणहस्ते संस्थाप्य दक्षिणहस्तस्य अङ्गुलीभिः तस्य उपरि पुटीकरणं कर्तव्यम् । मुष्ठिः करणीया । वामहस्तस्य तर्जन्याः अग्रभागः दक्षिणहस्तस्य अङ्गुष्टस्य अग्रभागं स्पर्शितव्यम् । वामहस्तस्य अवसिष्ट अङ्गुल्यः दक्षिणहस्तस्य पृष्टभागे पुटीकरणीयम् । शङ्खाकृतीया इयं मुद्रा दक्षिणहस्ते वा वामहस्ते कर्तुं शक्यते ।

परिणामः सम्पादयतु

करतले यकॄत्, स्वादुपिङ्ड, थैरैड्, मूत्रपिङ्ड, जठर- हृदयाणां नोदनबिन्दुषु अङ्गुष्टेन उपरि नोदनेन शरीरस्वास्थं भवति । अपि च अङ्गुष्टेन अङ्गुलीनां नोदनेन अग्नेः प्रभावः न्यूनीभूत्वा पित्तशमनं भवति ।

उपयोगः सम्पादयतु

  • अङ्गुष्टस्य उपरि नोदनेन पिट्युटरि, पीनियल् च ग्रन्थीनां कार्यं प्रबलं करोति ।
  • मूत्रपिङ्डं समर्थतया कार्यं करोति ।
  • थैरैड् ग्रन्थ्याः कार्यं सुलभतया भूत्वा शिशूनां दैहिकस्वास्थं भवति ।
  • नाभिकेन्द्रस्य ७२,००० नाडीनां शुद्धीकरणं भूत्वा शरीरस्य सकलकार्याणि सुलभतया भवन्ति ।
  • नाभिकेन्द्रं स्वस्थाने आगत्य पचनक्रियां उत्तमं करोति । बुभुक्षापि उत्तमा भवति ।
  • कण्ठस्थथैरैड्ग्रन्थ्याः कार्यं सम्यक् कृत्वा स्वरस्य माधुर्यं वर्धयति ।
  • श्रवणदोषाः अस्ति चेत् अनया मुद्रया ध्वनिः समीचीनं भवति । ध्वनिः सुलभतया श्रूयते ।(इयं मुद्रा १५-२० निमेषपर्यन्तं क्रियते चेत् ध्वनिः समीचीनं भवति )
  • गायकानां कृते इयं मुद्रा एकः वरदानं एव । तेषां स्वरमाधुर्यं वर्धयति ।
  • धूल्याः अलर्जिं दूरीकरोति ।
  • टान्सिल्-समस्या शमनं भवति ।
  • शरीरस्य ज्वाला शमनं भवति ।

विशेषसूचना सम्पादयतु

प्रवाससमये धूल्याः समस्या उद्भवति । सर्वेः अपि बहिः गत्वा अन्तः आगमनसमये हस्त-पाद-नेत्रं च प्रक्षाल्य ५ निमेषपर्यन्तं शङ्खमुद्रा क्रियते चेत् धूल्याः अलर्जिं शमनं भवति । गायकैः प्रतिदिनं १० निमेषपर्यन्तं इयं मुद्रा करणीया । पचनक्रियायाः समस्या येषाम् अस्ति तैः इयं मुद्रा १० निमेषपर्यन्तं करणीया । थैरैड्-समस्यायां इयं मुद्रा दिने ५० निमेषपर्यन्तं ३-४ वारे करणीया । तर्हि एकवासरे एव समस्या शमनं भवति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शङ्खमुद्रा&oldid=482818" इत्यस्माद् प्रतिप्राप्तम्