इदं शतावरीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं रूढभाषया “बहुबालानां माता” इति उच्यते । वस्तुतः इयं काचित् हरिद्वर्णीया लता । इयं लता गाढेषु अरण्येषु उपलभ्यते । अस्याः लतायाः शाखाः त्रिकोणाकारिकाः भवन्ति । ताः शाखाः स्निग्धाः रेखान्विताः चापि । अस्याः लतायाः पुष्पाणि १ – २ अङ्गुलं यावत् दीर्घाणि भवन्ति । तानि पुष्पाणि कदाचित् पृथक् कदाचिच्च गुच्छरूपेण वर्धन्ते । अस्याः फलानि रक्तवर्णीयानि । तेषां फलानाम् अन्तः द्वित्राणि बीजानि भवन्ति । चरकः एतां लतां बल्ये, वयस्थापने, मधुरस्कन्दे च योजितवान् अस्ति । सुकृतः विहारिषु, गन्दाधिषु गणेषु, कण्टक – पञ्चमूलेषु , पित्तसंशमनगणे च योजितवान् अस्ति । अस्याः शतावरिलतायाः संस्कृते शतमूली, शतविर्या, बहुनुरिता, अतिरसा इत्यादीनि अन्यानि अपि नामानि सन्ति ।

शतावरीसस्यम्

इतरभाषाभिः अस्य शतावरिसस्यस्य नामानि

सम्पादयतु

अस्य शतावरिसस्यस्य वैज्ञानिकं नाम अस्ति Asparagus Racemosus Liliaceae इति । इदं शतावरिसस्यं हिन्दीभाषया “सतावर्” इति, तेलुगुभाषया “चल्ला” इति, तमिळ्भाषायां “सडावरी” इति, मलयाळभाषया “शतावलि” इति, कन्नडभाषया “आषाडि बेरु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य शतावरिसस्यस्य प्रयोजनानि

सम्पादयतु

अस्य शतावरिसस्यस्य रसः मधुरः, तिक्तः च । विपाके मधुरः एव भवति । इदं सस्यं गुणे गुरु, स्निग्धं चापि । एतत् शीतवीर्ययुक्तम् ।

१. इदं शतावरिसस्यं वातं पित्तं च शमयति ।
२. इदं सस्यं शिरोव्याधिषु, अपस्मारे, गृहिणीरोगे च उपयुज्यते ।
३. अस्य उपयोगेन विस्फोटः, मसूरिकः, हृदयदौर्बल्यं चापि अपगच्छति ।
४. राजयक्ष्मे, कामलायां च इदं हितकरम् ।
५. स्त्रीणां स्तन्यवर्धनार्थम् अपि इदं शतावरी अत्यन्तं श्रेष्ठम् औषधम् अस्ति ।
६. अस्य स्वरसः १० मि.ली. यावत्, क्वाथं ३० मि.ली. यावत् सेवनीयम् ।
७. अनेन निर्मितानि “शतावरिघृतफलघृतं”, “नारायणतैलं”, “विष्णुतैलं”, “शतमूल्यादिलेह्यं”, “शतावरिपानकम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=शतावरीसस्यम्&oldid=409742" इत्यस्माद् प्रतिप्राप्तम्