अनेनासनेन भुजङ्गासने व्यापृतानामवयवानां विश्रमः इतरेषामवयवानां व्यापृतत्वं च सिद्ध्यति । अनेन प्रसारणपेशीनां सङ्कोचः कोचनिपेशीनां विकासश्च जायते । पृष्ठस्थपेशीनां बलं सहनशक्तिश्च वर्धते । पादप्रसारणार्थं साहाय्यं कृतवतः उरसः मणिबन्धनस्य च बलं वर्धते । नितम्बास्थीनां तत्सबन्धिनां स्नायूनां पेशीनां च प्रसादः लभ्यन्ते । यः भारोद्वहनादिकर्म करोति तस्य कृते प्रयोजनप्रदमिदमासनम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शलभासन&oldid=409749" इत्यस्माद् प्रतिप्राप्तम्