शशाङ्कासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः सम्पादयतु

  • वज्रासने उपविशतु ।
  • शनैः पूरकेण हस्तद्वयं ऊर्ध्वम् उत्तोलयतु ।
  • रेचकेण शनैः हस्तद्वयं पुरतः प्रसार्य करतलद्वयं भूमौ संस्थाप्य कूर्परं यावत् हस्तद्वयं भूमौ स्थापयतु ।
  • ललाटमपि भूमौ स्थापयतु ।
  • निमेषं यावत् तस्यामवस्थायां स्थित्वा पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।

लाभः सम्पादयतु

  • अन्त्रं ,यकृत्, अग्न्याशयः, मूत्रग्रन्थिः इत्यादयः बलं प्राप्नुवन्ति ।
  • चिन्ताक्रोधादयः मानसिकरोगाः दूरीभवन्ति ।
  • स्त्रीणां गर्भशयः दृढः भवति ।
  • उदरस्य नितम्बयोश्च स्थूलता न्यूनीभवति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शशाङ्कासनम्&oldid=409752" इत्यस्माद् प्रतिप्राप्तम्