शान्तिस्वरूपः भटनागरः

आचार्याः शान्तिस्वरूप भट्टनागरः महाभागाः OBE,FRS(२१ परवरी १८९४ तः १ जनवरी १९५५) प्रसिद्धा भारतीय वैज्ञानिकाः आसन्।एतेषां जन्म शाहपुर( इदानीं पाकिस्तानी) नगरे अभवत्।यदा इमे अष्टमवयसि आसन् तदा एतेषां पितरः परमेश्वरीसहाय भट्टनागरमहाभागाः दिवङ्गताः।एतेषां वाल्यावस्था स्व मातामहस्य गृहे एव व्यतीता।मातामहः अभियन्त्रारः आसन् इति हेतोः एतेषां विज्ञानं तथा अभियान्त्रिक विषये अभिरूचिः वर्धिता।यान्त्रिकमानव -वैद्युतिक वैटरि तथा तारयुक्ता दूरवाणी प्रभृतीनां निर्माणे एतेषां महतीश्रद्धा आसीत्।कवितालेखनेऽपि एतेषां रूचिः वर्धिता अतः एतेषां एका उर्दु एकाङ्की कविता करामाती प्रतियोगितायां प्रथमस्थानं प्राप्तम्।

भारते स्नातकोत्तर समाप्य शोधकार्यार्थं शोध आर्थिकसहायतां सम्प्राप्य एभि इंगलेडे  नगरं प्रति गतम्।१९२१ तमे वर्षे लण्डन विश्वविद्यालये रसायन शास्त्रस्य आचार्याणां फेड्रिक जी डोन्नान महाभागानां मार्गदर्शनेन एभिः विद्यावारिधी उपाधिः लब्धा ।भारतं प्रति पुनः प्रत्यावर्तनानन्तरं बनारसहिन्दू विश्वविद्यालयतः आचार्यपदेऽपि आमन्त्रिताः इमे।१९४१तमे संवत्सरे एतेषां शोधकार्यार्थं सर्वकारेण एनम् नाइटहुड इति सम्मानेन सम्मनितम्।१९४३ तम वर्षस्य मार्चमासस्य  अष्टादशेदिनाङ्के रायलसमाजस्य विशिष्टविद्वानत्वेन एतेषां चयनं जातम्।एतेषां शोधविषये एमल्जन कोलाय्डस तथा औद्योगिक रसायन शास्त्रमासीत्।इमे चुम्बकत्वस्य रसायनिकक्रियाणां विषये समधिकं ज्ञातुं औजाररूपेण प्रयेगं कृतवन्तः।एभिः आचार्यः आर एन माथुर महाभागैः सह मिलित्वा भट्टनागर-माथुर इन्टरफेयरेन्स सन्तुलनस्य प्रतिपादनं कृतमासीत्।अनन्तरं एकया ब्रिटिश संस्थया उत्पादनार्थमेतस्य प्रयोगः कृतः।एभिः एकं कूलगीतनामकं सुन्दरं विश्वविद्यालयगीतमपि रचितं यस्य प्रयोगः विश्वविद्यालय कार्यक्रमाणां प्रारम्भे भवति स्म।भारतस्य प्रधानमन्त्रिणः श्रीमन्तः जवाहारलालनेहूरमहाभागाः विज्ञानस्य प्रसाराय समर्थकाः आसन्।भारतीय स्वतन्त्रतानन्तरं श्रीभट्टनागरः महोदयानामाध्यक्षे वैज्ञानिक एवं औद्योगिकानुसन्धानपरिषदः (सीएसआईआर)  इत्यस्या संस्थायाः स्थापनम् जातम्।श्रीभट्टनागरमहाभागाः उपर्युक्त संस्थायाः (सी एस आई आर) प्रथमाः महानिर्देशका आसन् ।एनम् शोधप्रयोगशालानां जनकः इति कथ्यते।भारतवर्षे वह्वीनां वृहतरसायनिक प्रयोगशालानां स्थापनार्थं  एतेषां स्मरणं भवति।इमे भारते द्वादश राष्ट्रीय प्रयोगशालानां स्थापनं कृतवन्तः।ताषु प्रमुखप्रयोगशालानां नामानि-

१ केन्द्रीय खाद्य प्राद्योगिकी संस्थान्, मैसूर।

२ राष्ट्रीय रासायनिकी प्रयोगशाला, पुणे।

३राष्टीय भौतिकी प्रयोगशाला, नई दिल्ली।

४राष्ट्रीय मैटलर्जी प्रयोगशाला, जमशेदपुर।

५ केद्रीय ईन्धनसंस्थान, धनबाद प्रभृतयः।

एतेषां मृत्युरनन्तरं सी एस आई आर इत्यनया संस्थया  कुशलवैज्ञानिकानाम् कृते  भट्टनागरपुरस्कारेण पुरस्कृताः क्रियन्ते।शान्तिस्वरुप भट्टनागर महाभागान् विज्ञानक्षेत्रे अभियान्त्रिकी क्षेत्रे च कार्यार्थं १९९४ तमे संबत्सरे पद्मभूषण सम्मानेन सभाजनं कृतवन्तः।

सम्बद्धाः लेखाः सम्पादयतु