शार्दूलविक्रीडितच्छन्दः

(शार्दूलविक्रीडितम् इत्यस्मात् पुनर्निर्दिष्टम्)

शार्दूलविक्रीडितम्।

लक्षणम् सम्पादयतु

सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्

प्रतिचरणम् अक्षरसङ्ख्या १९
यस्य चतुर्षु चरणेषु क्रमेण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति । तस्य लक्षणम् आचार्यपिङलेन इत्थं निर्दिष्टम्

सूर्याश्वैर्मसजस्तता: सगुरव: शार्दूलविक्रीडितम् । केदारभट्टकृत- वृत्तरत्नाकर:३.९९

ऽऽऽ ।।ऽ ।ऽ। ।।ऽ ऽऽ। ऽऽ। ऽ
म स ज स त त ग।
यति: द्वादशभि: सप्तभि:च।
सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् अस्मिन् वृत्ते सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति ।

गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! तं घोषयाहर्निशं, पाणी! पूजय तं, मनः ! स्मर, पदे ! तस्यालयङ्गच्छतम् ।
एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ - '''छन्दोमञ्जरी

उदाहरणम् सम्पादयतु

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

पावकः[अग्निः] जलेन, घर्मः छत्रेण, मदयुक्तो हस्ती तीक्ष्णाङ्कुशेन, गोरासभौ दण्डेन, व्याधिः भेषजचिकित्सया, विषं च विविधमन्त्रप्रयोगैः शाम्यति । इत्थं लोके सर्वस्य अपि शास्त्रविहितं औषधम् अस्त्येव परन्तु मूर्खजनस्य लोके प्रतीकारः एव न दृश्यते।

"कस्तूरीतिलकं ललाटफलके,वक्षस्स्थले कौस्तुभं । नासाग्रे नवमौक्तिकं,करतले वेणुं,करे कङ्कणं। सर्वाङ्गे हरिचन्दनञ्च कलयन्,कण्ठे च मुक्तावलीं , गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥"

मुग्धा दुग्‍धधिया गवां विदधते कुम्‍भानधो बल्‍लवा: । कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्‍ता अपि ।। कर्कन्‍धुफलमुच्चिनोति शबरी मुक्‍ताफलाशंकया । सान्‍द्रा चन्‍द्रमसो न कस्‍य कुरूते चित्‍तभ्रमं चन्द्रिका ।।

धर्मग्लानिरधर्मपुष्टिरवनौ जायेत काले यदा, जन्मध्वंसविवर्जितस्य जननं मायाबलान्मे तदा॥ साधुत्राणखलप्रणाशनपरो धर्मं च संस्थापये, दिव्यं जन्म च कर्म वेत्ति मम यो मामेति कौन्तेय स:॥

लक्षणसमन्वयप्रकारस्तु पूर्वोक्तः एव।

यथा-

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

[मगणः, सगणः, जगणः, सगणः, तगणः तगणः]

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

ऽ ऽ ऽ । । ऽ ।ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ उदाहरणम् २ धर्मग्लानिरधर्मपुष्टिरवनौ जायेत काले यदा, जन्मध्वंसविवर्जितस्य जननं मायाबलान्मे तदा॥ साधुत्राणखलप्रणाशनपरो धर्मं च संस्थापये, दिव्यं जन्म च कर्म वेत्ति मम यो मामेति कौन्तेय स:॥

सम्बद्धाः लेखाः सम्पादयतु